पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ श्रीरङ्गरामानुजमुनिविरचिता ज्ञाननित्यत्वे विषयस्यापि तथात्वमित्युक्त ईश्वरप्रत्यक्षेऽतथत्वात्स् ]व्यवहारानुगुण्य कादाचित्कवमेव बक्तव्यमवशिष्यते । अत एव वक्ष्यति “अनुग्राहकतयोक्तौ भवतः ) इति । पूर्वापरावविदुःस्वयंप्रकाशत्वादेवानित्यत्वस्याप्रकाशे अवविद्वयराहित्यरूपनि त्यत्वस्याप्यप्रकाशः सुवच एव। कालापरिच्छिन्नत्वलक्षणनित्यत्वपक्षेऽपि कलपरिच्छेद स्यास्वयंप्रकाशत्वादेव तदभावलक्षणनित्थवस्य न प्रकाशोपपत्तिरित्यस्वरसादाह यद्वा घटादिनित्यत्वप्रसङ्ग इति । अनुगा नित्यत्वलक्षणमिति । सर्व कालसंबन्धित्वलक्षणनित्यत्वस्य कालसाधारण्याभावादिति भावः । लिङ्गादेः प्रत्यक्ष इज्ञानविषयत्वादिति । इदमुपलक्षणम् । ' अधुनेदमतीतम्' इति ज्ञानं स्वाधार कालवृत्तिध्वंसंप्रतियोगित्वलक्षणमतीतत्वमतीतवस्तुनि विषयीकरोति । 'इदमिदानी मतीतम् । इति शब्दप्रयोगस्थलेऽपि * इदानीम्' इति शब्दप्रयोग॥धारकालवृति ध्वंसपतियोगित्वलक्षणमतीत्वमेव भासते । ततश्च ज्ञानस्य नित्यत्वे सर्वस्यापि कालाय तज्ज्ञानाधात्कालतया अतीतानागव्यवस्थानुपपत्तिः । न चैवमीश्वरज्ञानेऽती तत्वोछेखाद्यनुपपतिः स्यादिति वाच्यम्, तत्राप्यवस्थाभेदेन ज्ञानभेदमादायैवाती तत्वोलेखस्य समर्थनीयत्वदित्यपि द्रष्टव्यम् । वतुनस्तु अनुमित्यादीनां नित्यत्वे जन्यज्ञानत्वेन प्रत्यक्षत्वमेव स्यात् । ततश्च तद्विषयाणामपि नित्यत्वमेव स्यादिति दूषणे तात्पर्यमित्याहुः । ( निर्विषयसंविदस्फूर्तिः) अनुभवानभ्यासश्चास्मरणमात्रहेतुतया हि प्रसिद्धा इति । अस्मरण नियमहेतुतया प्रसिद्धा इत्यर्थः । अनुभवानभ्यासश्रेति चशब्द त् प्रायणनारक शादिः संगृह्यते । एते निखिलसंस्कारतिरस्कृतिकरदेहविगमादीत्यादिपद ग्राह्या इत्यर्थ । * तदन्यधीरतात्पर्य पटुत्वविरहो धियः । दुःखादि तीव्रमुन्मादोऽनभ्यासो दीर्घ३ लता । एतैश्चादृष्टवैगुण्यं कल्प्यै. संस्काररेषुि । एतेष्वसत्वस्मरणात् ज्ञानाभावोऽनुमीयते । " इति सिध्यति () (सिद्धिः) । अतो नियमशब्द इति । अस्मरणनियमहेतुभूतदेह विगमादेरभाव इत्युक्तः अस्मरणनियमादित्येव वक्तुमुचितम्, न त्वसारणमिति ।