पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ नुगुणत्वस्याहमर्थ इव संविद्यपि सत्वेनाहमर्थोऽप्यात्मेत्येव सुकुमुचिनतया 'अहमर्थ एवात्मा' इति क्कुमनुविनवान् । तनश्च. स्वसताप्रयुक्तप्रकाशात् वा, अव्यभिचरित प्रकाशमत्तकत्रं वा, तत्वे सति स्वनै भासमानत्वं वा, अन्यसंबन्धानपेक्षप्रकाशत्वं वे१ि चतुर्धा विकरूोऽभिमतः । भाष्येऽपि तथैव प्रतीयत इति वदन्ति । प्रत्यक्षबाधः सर्वम्धारणं दूषणमिति । 'अङ्गम्’ इति भासमानस्यैवात्मत्वेन तस्य ज्ञानाश्रयनया ज्ञानभेदनैव प्रतीतेरिति भाव । यद्वा । अहं जानामि ' इति नस्याहमर्थधर्मत्वग्राहिप्रमाणबाध इत्यर्थः । अनैकान्त्यांवरोधयोरन्यतरेणेति । स्वदर्शने पक्षत्थवृतित्वकपमनैकान्यम् ; परदर्शने पक्षविपक्षमात्रवृतिस्वरूपविरोध इत्यर्थः । न व्यभिचरति प्रकाशो यस्य सत्तामिति । अत्र केचि – न व्यभिचरति प्रकाशं यस्य सत्तेति पाठः समीचीनः, तस्यैवार्थस्थोचितत्वात् । सत्ताया एव प्रकाशव्याप्यत्वस्य विवक्षित्वात्, भाप्यस्थाव्यभिचरितशब्दस्य कर्मणि क्तप्रत्यया न्तत्वेन कर्तरेि क्तप्रत्ययान्तत्वाभावादिनि वदन्ति । परस्मै भासमानत्वमुपपादयतीनि । । अहं सुखी । इत्यन्नाहमर्थस्य सुखशेषित्वभानन् िसुखस्यैव प्रकाशरूपत्वान् सुखकाशशैषित्वलक्षणं प्रकाशफलित्व मपि “अहं सुखी ? इत्यत्र भांसल इति भावः । अथाहमर्थस्य भ्रानिसिद्धत्वमिति । न च भाप्ये ज्ञातृतथावभासते इति ज्ञातुरेव भ्रान्तिसिद्धत्वं प्रतीयते, नाहमर्थम्येति वाच्यम् - अहमर्थस्यैव ज्ञातृत्वात् । अत एव परिहारभाष्ये अनुभविताहमर्थः प्रतीयते अनुभूतिरह मितीत्युक्तम् । भाप्ये-अनुभूतिः परमार्थतो निर्विषया निराश्रयेति । अत्रा श्रविषयशब्दौ भावप्रधानौ ! ज्ञानाश्रयत्वज्ञानविषयत्वशून्येत्यर्थः । “सा ज्ञातृस भ्रान्तिसिद्धा रजततेव शुक्तिशकलस्य,” * अनुभूतेः स्वात्मनि कर्तृत्वायोगा ? दिति पूर्वपक्षभाष्यानुरोधात् । अत एव ज्ञातृत्वस्य आन्तसिद्धत्वेोपपादने परमार्थतो विषयाश्रयशून्यविषयत्वोपद्मनुपयुक्तमिति शऽपि निरस्त । अत्र च ज्ञान विषयत्वशाम्यत्वोपपादनं दृष्टान्तया, न प्रकृतोपयोतियेति द्रष्टव्यम् । यद्वा निगाश्रया ! तादात्म्यसंबन्धेनाध्यस्यमानशातृश्शूश्येत्यर्थः । अत’ ऐव. असुभव सामानाधिकरण्येनाहमर्थः प्रतीयेतेति भन्थस्वास्यं द्रष्टलम् ।' त ।