पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ श्रीरङ्गरामानुजमुनिविरचिता श्च धर्मभूनज्ञानेनानुकूल्यविशेषवत्या जाग्रदादिवेिक्षमस्मरणं संभवति । भवस्य संस्काराधायकतासंभवेन स्मरणमपि संभवति, सदशायां कलस्यापि धर्मभूत ज्ञानेन विषयीकरणसंभवातू , कालस्य ज्ञान्मात्रविषयत्वात्, तत्कालीने आनुकूल्य विशेषतया स्त आत्मिन ज्ञानाभारूपस्वास्य योग्य रणलिङ्गगम्यवसंभवात् स्वापांशस्यापि तद्रानुभवेऽपि बाधकाभावात्, सर्वांशे प्रमशस्थ स्वरससिद्धत्वाचेति । वस्तुततु धर्मभूतज्ञानेन व्यावर्तकाकारास्फुरणेऽपि जमद्दशाविलक्षणे प्रभुष्टताक स्मृतिगोचरेऽतिशयितसुखविशेष आत्मनि तदानींतनार्थास्मरणलिङ्गेन ज्ञानाभावप स्वापस्य वा तस्य स्वापस्येदानीमसत्वेन लिङ्गेन स्वापगतातीतत्वस्य वानुमाने दोषा भावान्नानुपपत्तिरिति द्रष्टव्यम् । (अहमर्थात्मपुफुरणसमर्थनम्)) तचेन्द्रियद्वारेण यवस्थितमिति भाष्यस्वारस्यविरुद्धं चेति ।

  • क्षेत्रज्ञावस्थायां कर्मणा संकुचितस्वरूपं तत्क र्मागुण:रतमभावेन वर्तते । तचे

द्रिथद्वारेण व्यवस्थित ? इति भाष्यविरुद्धमित्यर्थः । न किंचिदवेदिष मित्यज्ञानसाक्षित्वेन स्थितिं वदतेति । सुप्तोत्थितस्य * न किंचिदवेदिषम् इत्याकारकस्मरणान्यथानुपपत्तिकल्पितं सुषुप्तिकालीनं * न जानामि । इतेि यदज्ञान साक्षित्वम्, तेनेत्यर्थ । ततश्च युषुप्तिदशायां 'न चेद्मि ? इत्यज्ञानानुभवसंभवेऽपि नवेद्विषम् ? इत्याकारक्रांज्ञानानुभवासंभवात् कथमेतदितेि न चोदनीयम् । अज्ञानाश्रयभूताहमर्थेति । अहमर्थस्याज्ञानाश्रयत्वमप्यभ्युपगन्तव्यम् । तद्भानमप्य भ्युपगन्तव्यमेित्यर्थः । यथा प्रातश्चत्वरे गजो नास्तीतीति । इदं गजाभाव विशिष्टतयानुभूतस्य चत्वरस्य यदा सरणं तदेतेि द्रष्टव्यम् | परमते *न किंचिद वेदिषम्' इत्थस्य सर्वांशे परामर्शरूपत्वातदनुसारेण दृष्टान्तस्य वक्तभ्यत्वात् । उत्तरत्र तु सिद्धान्ते धम्श एव परामर्शरूपत्वात् तद्दृष्टान्ततया स्वमतानुगण्येन वक्ष्यमाणा चत्वरे गजो नास्ति इति योग्यानुपलब्धिलिङ्गकगजाभावानुमितेिश्चत्वरांश एव परामर्शरूपा । अतश्धत्वरमात्रं यत्र प्रागनुभूतं तादृशमेवोत्तरत्रोदाहरिष्यते, स्वमतानु गुण्यादितेि द्रष्टव्यम् । परमतवत् त्वन्मतेऽपि 'सुखम्हमस्वाप्सम्' इतेि सर्वांशेऽपि पराभर्शत्वमेव स्यादिति शङ्कते--अस्वामिति परामर्देनेति । अनुसंधानमस्ति