पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ श्रीरङ्गरामानुजमुनिविरचेिता स्वारस्यमस्ति । तथापि अयमेवोत्कृष्टञ्जनावमानहेतुरियुत्तरभाप्ये 'अयम् इत्यनेन करणशब्दार्थ: परामर्शनई, तस्य नपुंसकत्वात् । तेन भावशब्दार्थस्य परामशों वक्तव्यः । अत्र चाहंभावशब्दस्य यद्यहंत्वमर्थः स्यात्, तस्थ गर्वशब्द तत्वायोगदसंगतिः स्यात् । अतोऽहंभावशब्देनाहंबुद्धरेव परत्रष्टव्येत्यभिप्रायः । अयंशब्देन प्रस्तुतादंभाषेो विवक्षित इति । अयमेव त्वहंकार इति भाष्यस्य, उकृष्टजनावमानहेतुर्गर्वापरामा योऽहंकार: शाखेषु हेयतया प्रतिपाद्यते, सोऽयमेवेति योजनेत्यभिप्रायः । इतरथा ' अयमेव त्वहंकार ! इत्यनेन प्रस्तुतस्य महत्तत्व कार्याहंकारस्यैव परामर्शप्रसङ्गात् । अहंभावलक्षणाहंकारस्य प्रागसिद्धत्वात् । अय मेवाहंकार इति सिद्धवन्निर्देशासंभवाच। करोबुिद्धिपरत्वं युक्तमिति । “शव्ददर्दूरं करोति " इत्यत्र करतेज्ञानार्थकत्वाभिधानात् । अत एव “ शब्दं करोति, शाब्दिकः” इत्युपपद्यत इति द्रष्टव्यम्। अनहम्यहंबुद्धिगर्भाविमावईभावाहंकार शब्दािित बहूषु कोशेषु पाठी दृश्यते । तत्रहंभावशब्दो लेखकस्खलनकृतः । अनात्मनि देहेऽहं भवेत्थाहंभावशब्दस्य “ अविद्याऽहंमतिः स्त्रियाम् ? इत्यला हंमतिशब्दवत् च्विप्रत्ययान्तत्वाभावात् । अत्र भावे व्युत्पत्तिः, पूर्वत्व करणे व्युत्पत्तिरित्युपरितनवाक्ये अहंकारशब्दस्यैव व्युत्पत्तिप्रदर्शनाच । अत्र भावे व्युत्पत्तिरिति । अनत्मन्यात्मबुद्धिरूपे भ्रमे इत्यर्थः । पूर्वत्रेति । अहंकारख्ये महतर कार्य इत्यर्थः । उपादेयगोचरतयेति । “ अथातोऽहंकार देशः ? इत्यहंबुद्धेः कर्तव्यत्वाभिधानादिति भावः । स त्वहंकारशब्द इति । अयमत्र विवेकः-अहंकारशब्दो द्विविधः । च्विप्रत्ययान्तादुत्पन्नोऽनुत्पन्नश्च । उत्पन्नश्च द्विविधः-भावसाधनः करणसाधनश्चेति । च्विप्रत्ययान्तादुत्पन्नो भावसाधनो गर्ववाची । च्विप्रत्ययान्तादुत्पन्नः करणवाची त्वहंकारशब्द्रोऽहंकारतत्वाची । अच्व्यन्तोन्नभादसाधनशब्द उपादेयभूताहंमत्यत्राचीति । ननु “श्रूयतां चाप्यवेिद्यायाः ? इत्यस्मिन् लोके अनात्मन्यात्मबुद्धेः परमनुपादेयत्वमुच्यते, न त्वनात्मन्यहंबुद्धः । अतः कथमस्योक्तार्थे प्रमाणत्वमिति शङ्कायामाह--अत्रैव पुराण इत्यादिना । अनन्तरोक्तभ्रान्तियोग इति । अनात्मन्यात्मबुद्धिरुपभ्रान्तियोग इत्यर्थः । अविद्याया अयोग इति छेदसंभवमभिप्रेत्य तमेवार्थं विपर्ययतो व्यानटे-- अहमर्थस्यानात्मत्व इति । भ्रान्तेरयोग इति । आत्मभ्रान्तत्वायोग इत्यर्थ !