पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशेिका १५ १ एतेन प्रत्यक्षान्तराणां दोपमूलत्वमनुमीयते चेदितेि । केषुचित् प्रत्यक्षेषु काचादिदोषमूलत्वदर्शनेन प्रत्यक्षन्तरा, क चदिदोष लवमनुमीयते चेदित्यर्थः । एवमुत्तरत्र सर्वत्रापि दोषपदं काचदिोधरं द्रष्टयम् । ततश्च भुरव्यमृषावादिनः स्वैकदेशिनं प्रति स्वन्याधातकरीीयमुक्तिः कथं स्यादिति शङ्का नेिरस्ता । कोऽयं दोष इति भाष्धस्य धदुक्तमित्यनेनान्वयं घटयितुमु वे प्रदर्शय–ि कोऽयं दोष इत्यनया वनव्यक्तयेति । दोषमूलत्वेनान्यथासिद्धिसंभाव नया सकलभेदपत्यक्षस्य शास्रबाध्यत्वमितेि यत् दोषरूप, लमुक्तम्, तत् किमित्येवं

  • को दोष ? इति वचनव्यतया पृष्ट इत्यर्थः । यदुक्तमिति नपुंसकस्य को दोष

इति पुंलिङ्गस्य च सामानाधिकरण्यसंपादनस्यातेि थत्त्रदिन्यथा व्याचष्टे--यद्वा यच्छब्दसामथ्यादिति । हेतुत्वेन व्यारिदृष्टत्येति । भेदवासनात्वस्येति शेषः। भेदवासनाया विपरीतज्ञानहेतुत्वेन व्याप्तः = सावं श्येन संग्रन्ध्रस्येत्यर्थः । भाप्ये श्रवणावगतनिखिलभेदोपमदति । श्रवणवेलायां निखिलभेदोप भर्देिवेन प्रकारेणावगतस्य ब्रह्म.मैकश्वविज्ञानस्याभ्यासरूपत्वान्मननादेरित्यर्थः । न च भन्नस्य ब्रह्मा मैकल्वविज्ञानाभ्यासरूपत्वेऽपि ब्रह्मात्मैकत्वविज्ञानस्य निखिलभेदोप मर्दित्वाभ्यासरूपत्वं किमर्थमिति शङ्कनीयम्, ऋहामैकत्वसिद्धयथै तदितरमिथ्यात्व सिद्धयै ब्रह्मात्मैकत्वविज्ञानस्य भेदोषमर्दित्वस्य चिन्त्यत्वात् ! आरम्भणाधिकरणे मननात्मकत्वचिन्तायाः क्रियमाणत्वाच । भेदवासनाभूलत्वं तावत् संपति पन्नामिति । प्रकृतिप्रत्ययादिभेदवासनानूलत्वादिति भाव । तस्यांश्च दोषत्वमिति । ननु दोषस्य भ्रान्तिकल्प्यत्वाद्वेदान्तजन्यचिन्मात्रविषयकज्ञानभ्य प्रमावेन दोषजन्यस्तै कुत: कल्प्यत इति चेत्-न ; वृत्तिरु८ज्ञानस्यापि ब्रह्मव्यतिरिक्त वेन मिथ्यात्वात् दोषजन्यत्वस्यावश्यकत्वात् , योग्यताञ्भ्रमजन्यतया । शास्राजन्यज्ञानस्यापि भ्रमत्क्स्य वक्तव्यत्वाचेति भावः । मिथ्यात्वावगतिश्च ज्ञाननिवार्यत्वावगमादिति । ननु श्रवणवेलायां ब्रह्मव्यतिरिक्तमिथ्यावस्य * नेहे नानास्ति ? इति शास्त्रेणैव प्रतीते मिथ्यात्वावगतेश्च दोषमूलत्वेन भेद सनाया एव दोषत्वं पर्यवस्यतीति ऋजुमागे सति मिनेन धक्रमार्गाश्रयणेनेति चेत् – अत्र केचित् - ननु श्रवणवेलायां दोष