पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ श्रीरङ्गरामानुजमुनिविरचिता स्थलेन व्यभिचार इति दोषो निराकृतः ! न ज्ञानस्य हेतुयापेक्षित इति । हेतुत्वं नास्ति, विषयत्वमस्ति । विद्यमानस्थले तु द्वयमप्यस्तीति वाक्यार्थः । वस्तुनो विद्यमानत्वमेवेति । प्रतिभासमानस्वरूपेण विद्यमानस्यापि वस्तुनो विद्यमानत्वं नास्तीति भावः। अयं भाव - केचन धर्म धर्मिसत्ता१पेक्ष: । केचन तन्निरपेक्षाः । तत्र च प्रतिभासमानत्वात्वातीतत्वानातत्वादयो धर्मास्त'न्नरपेक्षाः । कारणत्वरूपि त्वादयो धर्माम्तत्सापेक्षाः । तत्र धर्मिसत्तासापेक्षेधर्मेििशष्टतयावस्थितिरेव वस्तुती विद्यमानत्वमिति । व्यावृत्तिश्च स्वालम्बनेनेति । न च व्यावृतिजनकवे आलम्बन् स्यासत्यत्वादसत्यात् सत्यसिद्धयापतिरिति वाच्यम्, व्यावृत्तिधीजनकज्ञानविषयत्वरूपं तदीयतानियामकस्वरूपविशेषरूपं वा व्यावर्तकत्वं तत्र तदाऽविद्यमानस्याप्युपपद्य इति भावः । अन्यथाख्यातिपक्षेऽपीति । नन्वविद्यमानानामेव दोषवशादा लन्बनत्वं तत एव व्यावर्तकत्वं च संभवति, व्यावर्तकत्वस्य हेतुत्वरूपत्वाभावादिति समर्थनेनैव समीहितसिद्धेः किमेतन्निरुपणेनेति चेन् – सत्यम् । आलम्बनत्व मप्यत्यन्तासतो न संभवतीति प्राप्तङ्गिक्त्वदुपपद्यत इति द्रष्टव्यम् । कविदर्था तत्प्रतिपत्तिरिति । दर्पणप्रतिहतनयनर३िभसंपृक्तादर्थादित्यर्थ । कचित्प्रति भासादिति । स्वप्नस्थल इति भावः । असतो निरुपाख्यस्येत्यनयोः पौनरुक्यं च()7रिहरन् पक्षद्वयदृष्णपरतया व्याचष्ट – असतः सद्व्यतिरिक्तस्येत्यर्थ इत्यादिना । भाप्ये उपायोपेयी रित्यादि । यद्यपि “ अकारादिसत्याक्षरप्रतिपत्तिईष्टा रेखानृक्षरप्रतिपत्तेः” इति आरम्भणधिकरणशांकरभाष्यं व्याकुर्वत! वाचस्तिना-“यद्यपि रेखास्वरूपं सत्यम् तथापि तन् यथासंकेनमसत्यम् । न हि संकेतयितारः संकेतयन्ति, * ईदृशेन रेखा भेदेनायं वर्णः प्रत्येव्यः' इति, अपि तु ईदृशो रेखाभेद एवाकार इति । ततश्चा समीचीना संकेतात् समीचीनवर्णावगतिः' इत्यनृताक्षरप्रतिपते: सत्याक्षरप्रतिपत्तिहेतु त्वकथनान्न साध्यसाधनयोरभेदः-तथापि पूर्वदूपण एव तात्पर्यम् । सिंहावलोकनेनेति। ननु वर्णात्मना प्रतीता रेखेति तृतीयपक्ष एव-बुद्धशहेतुत्वपक्षे दृषणमुक्तम्; वर्णात्स तांशेो दूषणमुच्यत इत्युपपत्तौ सिंहावलोकनं किमर्थमिति चेत्-अत्र केचित्-वर्णात्मतां शस्य प्रथमपक्षातुप्रविष्टत्वाभिप्रायेण सिंहावलोकनोक्तिरुपन्नेति वदन्ति । केचितु