पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ श्रीरङ्गरामानुजमुनिविरपिता परतन्त्ररूपविशेपणानामिति । कालादृष्टादीनामित्यर्थः । उपरितनवाक्य संगतिमेव दर्शयति – एकमेवेत्यादिना । ब्रह्मणः सर्वदा सत्वेनेति । सच्छब्दप्रवृत्तिनिमित्तौष्कल्याघ्रारभूब्रझाभेदस्य “सदेवेदम् ? इति बोधनात् कार्यस्य कदाप्यसत्त्वशङ्काव्यावृत्तिरित्यर्थः । वैशेषिकमतनिरासपरमिति । न च तथा सति, “तद्वैक आहुरसदेवेदमग्र आसीत् एकमेवाद्वितीयम् " इत्यनु वादोऽनुपपन्नः, तैस्तथानभ्युपगमादिति वाच्यम् – शून्यवादनिराकणेऽपि दोषसाग्यात् । न हि शून्यवादिनैकमद्वितीयं किंचिदभ्युपेतम्, सर्वदा सर्वशून्य त्वयैव तेनाभ्युपेतत्वात् । यदि च द्वाक्यस्यैवाद्वितीयत्वोर्न तात्पर्यम्, तर्हि वैशेषिकस्यपि तत् तुल्यमिति भावः । वैशेपिकादिमतनिरासापेक्षत्वादिति । ननु “मृतिकेल्येव सयम् ” इयत्रैव तन्निराकृतम् । इतरथा एकविज्ञानेन सर्व ज्ञानसंभत्रमभ्युपगम्य , “भगवांस्त्वेव मे तद्ववीतु' इत्युपदेशप्रार्थनानुपपतेरिति चेत् - न; मतनुवादपूर्वकं सयुक्तिकं प्रत्यास्यामित्यन्न सात्वत् । मृद उत्पन्नस्य मृदात्मकत्वचदिति । न च सतः कार्यस्या दुन्नत्वस्यानभ्युपगतत्वात् कथमपादनमिति वाच्यम् – “जगत् पूत्रमसदासीत्; इदानीं सदासीत्' इत्युक्त सतोऽसदुपादानकत्वमुक्तं स्य.त्, यथा 'घटशरावदिः पूर्वं मृदासीत्, पश्चात् घटदिरासीत्' इत्युक्त तयोरुपादानोपादेयभाव उक्त एव स्यादिति नेश्चियैतद्भ दुपणापाइनमिति द्रष्टव्यम् । कथं निगश्रयाग्रस्थासंभध इत्यर्थ इति। अयं भावः--यदि प्रकृत्युशदानकस्य महदादेः प्रकृतित्वाभाववत् असदुपादानकस्यापि सतो नासत्प्राप्तिः, सत्त्वाचस्थाप्राप्सेरेखासत्वावस्थाविरोधित्वादिति--तदा तदपि न संभवति, असतः सत्त्वावस्थाप्राप्तेरेवासंभवन्निःश्रयावस्था कथं लभ्येतेतेि । तदा त्मकत्वेनैवेति । * ऐतदात्म्यमिदं सर्वम् ” इति पूर्ववाक्ये ऐनदात्म्यम्=ातदात्मक मित्यर्थः; स्वार्थे ठञ् । ततश्च, “सत्यम् ” इत्युतरत्रापि पूर्वनिर्दिष्टवेष विशिष्टस्य पराम्रष्टव्यतया तदत्मकस्यैव जातः सत्यत्वसिद्धिरिति भावः । नंनु

  • ऐतदात्म्यम् ? इत्यनेनैव जगद्रह्मणोः शरीरशरीरिभावे कथिते * स आत्मा' इति

निर्देशवैयथ्र्यमिति शङ्कां परिहरति-रामानुजै लक्ष्मणपूर्वजं चेतिवदिति । यद्वा स त आत्मा इति । अस्मिन् पक्षे 'स आत्मा , 'तत्त्वमसि ' इत्यनयोः पौनरुक्त्य परिहारः कथंचिदनुसंधेय ; तत्पन्ता इति तत्वमसीत्धस्यार्थ इति । तत्त्वं