पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ श्रीरङ्गरामानुजमुनिविरचिता न्वयित्वनियमात् । नाप्युपलक्षणत्वम्, कदाचित् कर्णशष्कुल्युपलक्षितस्यापि नभसः श्रोन्नत्वेऽतिप्रसङ्गदिति वाच्यम्-तत्राप्युल३णकोटाने निवेशसंभवत् । विद्यमानकर्ण संयोगस्थोपलक्षणत्वेन दोषाभावात् । उपलक्ष्यात् बहिर्भूतमिति । अयं भाव :- किं स्वरूपप्रतिपत्त्यर्थ ज्ञानादिपदम् ? उत ज्ञानत्वादिप्रतिपत्त्यर्थम् ? नाद्यः, पूर्व प्रतीतत्वात् । न द्वितीयः, उपलक्षणत्वव्याघातादिति । वाक्यार्थाभिधानदशायां सः पदैरिति । सर्वेः पदैः वाक्यार्थाभिधानदशायामित्यःचय । यदा सः पदैः एकज्ञानजनकत्वेन = एकज्ञानजननेनेत्यर्थः । अतो नान्वयानुपपत्तिरिति द्रष्टव्यम् । ननु युगपदभिधाने श्रुतिवाक्यादिषु बलाबलविभागनर्णयोऽसंगत एव स्यात्; वाक्यापेक्षया पदश्रुतेः प्राबल्यम्; पदश्रुयपेक्षया प्रत्ययश्रुतेरिति व्यवस्था दत्तजलञ्जलिः स्यादित्यस्वरसादाह-क्रमेणाभिधानेऽपीति । क्रमेणाभिधानान भ्युपगम इति । क्रमेणाभिधानानभ्युपगमवादिपक्ष इत्यर्थः । युगपत्प्रतिपादनेऽपि नापैतीति । उद्देश्योपादेयभावे हि तद्वाक्यज्ञात्वाज्ञा-त्वे अयोजके । अपितु तद्वाक्यप्रवृतेः प्राक् मानान्तराबगतमनूद्यते; अधाप्त हेि() विधीयन इत्येव हि विवेक इति भावः । पौर्वापर्यस्योद्देश्योपादेयलक्षणत्वाभावे कथमुद्देश्योपादेयविभागज्ञान मित्याशङ्कयाह-एकेन वाक्येनेति । परामर्शदशायां हि संभवत्येवेति। ननु ज्ञातत्वज्ञातत्वलक्षणोद्देश्योपादेयविभागज्ञानं न वक्ष्यार्थप्रतीतावु युक्तम् , येन वाक्यार्थप्रतीतेः प्राक् परामर्शदशायां तदवगतिः समर्थनीया स्यादिति चेत्-न; प्रहं संमष्टि ! इत्यादौ प्रहं संमृज्यात्, एकं संमृज्यात्, यत् संमृश्यात् तदेक मित्यादिवचनव्यक्तिनिरूपणाभावे निििचकित्सवाक्यार्थप्रतीतेरनुदयेन न्यायसंपादित ववनव्यक्तिपरामशानन्तरभावित्वाद्वाक्यार्थप्रतीते । अत एवोक्तम् “ न्यायसंपादित व्यक्ति पश्चाद्वाक्यार्थबोधकम् ” इतीति भावः । विशेष्यमात्रैक्यपरत्वात् समान विभक्तरिति । अयं भावः--यदुक्तं विशिष्टक्यप्रतिपादनं नेति, तदिष्टमेव ; विशिष्ट्रक्यप्रतिपादनस्यानभ्युपगमात् । न च विशेष्यैक्यमात्रप्रतिपादनं परस्या पीष्टमिति वाच्यम्, विशेषणान्वयस्यापि प्रातिपदिकावगनस्यात्यागात् । एकस्मिन् विशेष्ये “ एकस्य द्वयम्' इति न्यायेन पाप्तयोर्विशेषणैकत्वयोरपरित्यागादिति । व्युत्पत्तिश्च प्रत्यक्षमूलेति । न तु स्वर्गादिशब्दव्युत्पतिवत् श्रुतिमूलेत्यर्थः । [{