पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (परविद्यायाः सशेिपत्रिपयत्वम् ) ज्ञातृत्वस्य श्रौत्वप्रतिपादनद्वारा तद्दृढीकरणार्थम् । अभ्यां च याभ्यायां भक् प्रधानलयानिर्देशाद्याश्रयणं कृिष्टमित्यस्मस्सेो द्रष्टभ्यः । तृतीरन्याभ्यायां तु झातुरेवे त्यादिभाष्यस्य ज्ञातुरेव मनो ज्ञानम्वरूपत्वाविरोधादित्यर्थः । इदं न भाष्यं न विकल्पकोट्योरन्थतरनिरासकम्; अपि त्वविरोधप्रतिज्ञामात्रपरम् । किं ज्ञातुर्जानाना श्रयत्वं सजातीययोर्मधर्मिभावाभावादुच्यते, उत ज्ञानत्वात् ज्ञाननाश्रयत्वमिति विक्रल्प्य प्रथमं प्रतिवक्ति – ज्ञानस्वरूपस्यैवेति । द्वितीयं प्रतिक्ति-ज्ञातृन्धमेव हीति इति विवेको द्रष्टव्यः । पूर्ववदभिप्राय इति । 'किं व्याप्या उच्यते, उत श्रुत्या । इत्यादीत्यर्थः । ज्ञातृत्वं यथा फलेितं भवतीति । “तमीश्वराणाम् ?’ इत्यादिश्रुताबित्यर्थः । फलितत्वप्रकारश्चोत्तरत्र स्पष्टथिप्यते । ज्ञानस्य सर्वविषय कत्वमिति । * यः सर्वज्ञः सर्ववित् ? इत्यत्र ज्ञानस्य सर्वविषयत्वम्, “तदैक्षत इति समष्टयुपयोगित्वम्, “सेयं देवतैक्षत”इति व्यष्टद्युपयोगित्वम्, 'स्जै' इत्युक्तम् पुरुषेणात्मसंबन्धित्वं च दर्शितमित्यर्थः । कामप्रदत्वं चेति । कामितार्थज्ञानाभावे तप्रदत्वासंभवादिति भावः । देवतात्वं कर्माराध्यत्वम् । आराधना महनीयप्रीतिहेतु भूता क्रिया । ततश्च प्रीतिरूपज्ञानवत्वं सिध्यति | पतित्वं शेषित्वमिति । शेषि चेतनत्वमित्यर्थः, प्रयाजादिशेषिदर्शपूर्णमासादैौ पतित्वव्यवहाराभावान् । अतो ज्ञातृ त्वसिद्धिरिति भावः । द्वितीयविशेषपर्यवसायित्वं सूचितमिति ! ततश्च * न तस्य कार्य करणं च ) इत्याद्येशस्यापि प्रकृतोपयोगित्वमस्तीति भावः । विशेष विधानं विशेघनिषेधश्चेति । * अपहृतपाप्मा ? इत्यादिना विशेषविधानमित्यर्थः । वैयथ्र्यपरिहाराय संकोचश्चेत गोबलीवर्दन्याय इति । अत्रोपातविशेषव्यतिरिक्त विषय इत्यनुषज्यते । उपात्तविशेषविषये तस्य संकोच इति । न च-अर्थ छागापशुन्या एव; उत्सर्गापवादन्याय एव हेि सामान्यविशेषन्यायः । एवमेव व्यवहार दर्शनादिति वाच्यम्-सामान्यशब्दस्य विशेषातिरिक्तविषयत्वमादायोत्सर्गापवादन्याये सामान्यविशेषन्यायशब्दप्रवृतिवत् सामान्यवाविशब्दस्य विशेषपर्यवसानमादाय छाग पशुन्यायेऽपि सामान्यविशेषन्यायशब्दव्यवहारे दोषाभावात् । अत्र गोबलीवर्दन्थायक थनं शिष्यानुग्रहाथै प्रसङ्गात् कृतमिति द्रष्टव्यम् । ननु गुणसामान्यविा श्रुतिषु न दृश्यत इति कथमुच्यते, * यः कालकालेो गुणी सर्वविद्यः ।) इत्यादी तथा दर्शनादित्याशङ्कयाह-दोषसमभिव्याहृतेति । दोषाभावसमभिव्याहृतेत्यर्थः । अत्र 23