पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० श्रीरङ्गरामानुजमुनेिविरचेिता “एको देवः सर्वभूतेषु गूढ; सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलेो निर्गुणश्च । । इत्यादावेकवाक्यत्वमतीतेः तरुणत्वाच निर्गुणवाक्यान्तरस्यापि न तद्विरुद्धार्थप्रतीति जनकत्वमिति भावः । इदं रजतमिति परामर्शसापेक्षत्वादिति । 'इदं रजतम्। । इति झान्स्, “नेदं रुजतम् ' इति ज्ञानेोजयित्वादुजीच्यविरोधेन कथं तद्विरुद्धो त्पतिरिति शङ्कार्थः । शुक्तित्वविषया द्युक्तरप्रमितिरिति । इदमुपलक्षणम्-रजत त्वाभाववेिषयत्वेऽपि 'इदं रजतम् ’ इति ज्ञानस्य प्रतियोगित्रेिषयत्वमात्रांश उपजी व्यत्वेऽपि पुरोवर्तिनि रजतविषयत्वांशेऽनुपजीव्यत्वेन तदभावावगाने दोषाभावात् । उदीयमानमिति पाठे * इण गतौ । इति धातो रूपमिति द्रष्टव्यम् । आनन्दं ब्रह्मण इत्यादितात्पर्यलिङ्गप्राचुर्यादिति । ब्रह्मापेक्षयपि तद्रुणभूतानन्दवेदन स्यैव फलवत्नावेदनेन श्रुतक्षानन्दे तात्पर्यावगतेरिति भावः । (आनन्दवलथाः सगुणविषयत्वम्) पर्यवसितं युक्तमिति पाठः । पर्यवसानं युक्तमित्यर्थः । पर्यवसितुं युक्तमिति कचित् पाठो दृश्यते । तन्न “अछु क्षेपणे ? इत्यस्मात् अवपूर्वात् “ वष्टि भागुरिलोपमवाप्योरुपसर्गयोः " इति अवश्ध्दान्तलेोपे तुमुन्प्रत्यये सतिं कथंचित् निर्वाहो द्रष्टव्य ; “षो अन्तकर्मणि ? इत्यस्मात् तुमुन्प्रत्यये तस्य विस्वाभावात्

  • द्यतिस्पतिमास्थाम् । इतीत्वमासेम्भवात् ! अत एवानन्दमयाधिकरणे वक्ष्यत्याचार्य

“पर्यवस्यन्तः पर्यबसातुं प्रवृत्ताः ? इति ! नेित्यनवं यथा भवति तथेति । युवा चासावध्यायकश्चेति समासः । अध्यायकस्य च युवत्वम्ध्ययनद्वारा पर्यवस्यतीति भाव आशुतरक्रिय इति आशुतरक्रियावति वर्तमानात् आशुशब्दात् इष्टम्प्रत्यये टिलोपे रूपम् । आशुमच्छब्दात्, “न्मितोक् ? इति लुकि वा रूपं द्रष्टव्यम् । अशनक्ष्म इति | अशनम् आशः, ततो मत्वन्तात् इष्टन् प्रत्ययः । आशीर्वादविषये वर्तमानादाशीशब्दात् मत्वन्ताद्वा इष्टनेि आशिष्ठ इति रूपम् । सर्वत्र * बिन्मती छैक् ? इति इष्टन् प्रत्ययः; मतोश्च लुकू । पूरणगुणसुहितार्थेति । क्षुहितशब्दस्य तृप्यर्थत्वात् पूरणस्यापि तृप्तिरूपत्वादिति भावः । न तु पूरणगुणेत्यत्र पूरणशब्द इह मन्तव्यः, तस्य पूरणप्रत्ययपरत्वात् । ष्ठयनुज्ञानादिति । धष्ठीसमासनिषेध