पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ श्रीरङ्गराभानुजमुनिविरचिता कानात्मत्वसाधकागन्तुकत्वगुणत्वरूपहेतुद्वयपरत्वं वाक्यशैलीविरुद्धमित्यपरितोषादाह यद्वा चैतन्यं नाम विषयप्रकाश इति । स्वतचैतन्यस्वभावस्याग्न्तुकचैतन्यत्वं न संभवतीति भावः । जीवात्मानं प्रतिषिध्य सर्वभूतात्मानं परमात्मानमेवो पास्स्वेति भाप्ये जीवात्मानं प्रतिषिध्येति प्रतिषेधक्रियाय श्रुतिकर्तृकत्वादुपासनस्य च जीवकर्तृकत्वात् समानकर्तृकत्वाभावात् त्वामयानुपपत्तिमाशङ्कय श्रुतिकर्तृकोक्ति क्रियावाचिपदाध्याहारेण व्याचष्ट-दृष्टिश्रुतिमतिनिदिध्यासनानामिति । अस्मिन् पक्षे उपास्स्वेत्ययमर्थ उक्तो भवतीत्येव युक्तम्; वाक्यपदमयुक्तमित्यस्वरसादाह-यद्वा अभिदधातीत्यनुषङ्ग इति । इति वाक्यार्थ इति वाक्यान्तरमिति । उपास्स्वेत्यभिदधातीति वाक्यार्थ ? इत्यत्र इतिशब्दः संनिहितं न अभिदधातीत्यर्थ परामृशति, अपि तूपास्स्वेत्येतदशभिति भावः । इतिशब्दस्य विप्रकृष्टपरत्वमदृष्ट मित्यपरितोषादाह-यद्वा प्रतिषिध्य परित्यज्येति । (आनन्दश्रुत्यर्थः) भाष्ये-ज्ञानमेव ह्यनुकूलमानन्द इत्युच्यत इति । अत्र एवकारेण प्रतिकूलज्ञानस्यानन्दत्वं व्यवच्छिद्यते ; न तु विषयस्यापि । अतो विभूत्यानन्दत्वादस्य न िवरोध इति द्रष्टव्यम् । धर्मभूनानन्दस्य हीति । न त्वानन्दमात्रस्येत्यर्थः । ननु यदिदमुक्तमिति भाष्ये 'यत्र हि' इत्यादिवाक्यखण्डः प्रथममुदाहृतः। पूर्वपक्षेोपन्यासवेलायां तु कृत्स्नं वाक्यं “मृत्योः स मृत्युमाप्नोति' इति वाक्यस्य पश्चादुदाहृतम् । पूर्वपक्षोदाह-प्रकारं विहाय प्रकारान्तरेणोपादाने को हेतुरित्याशङ्कय परिहरति--यत्र हीत्यादिवाक्याभ्यामिति ! पूर्वं भेदनिवृत्तिप्रतिपादनपरतया पश्चादुदाहृतम् । इदानीं तु इवशब्दयुक्ततया भेदनिषेधप्रदर्शनपरतया, “नेह नानास्ति ? इति भेदनिषेधकवाक्यखण्डेन सहोपादानमिति द्रष्टव्यम् । निपेघ क्रियाऽऽवृत्तिरर्थ इति । बहुशः=बहुषु स्थलेष्वित्यर्थः । “ बहुरुपार्थाच्छस्कारका दन्यतरस्याम्' इति कारके शसो विधानात् । अधिकरणस्यापि कारकत्वात् । ततश्चावृत्तिः फलितेति फलेितार्थकथनम्; न प्रत्ययार्थतयेति द्रष्टव्यम् । बहुभवन भ्रमरूपमिति । सार्वश्यस्य पूर्वसिद्धत्वे हि पाश्चात्त्या भ्रान्तिनोपपद्यते ; न हि