पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिबिाँबेता वाक्यमुदाहृत्य तेन प्रकारभेदविधक्कवाक्यप्रदर्शनमुचितमित्यपरितोषादुदाहृतः ऋक्थस्यैवोभयविधभेदविधिपरत्वं दर्शयति - यद्वा छान्दोग्य इत्यादिना । इयं श्रुतिरिति । अत्र 'इयम् 'इति व्याख्ये पदम् । स्खनिष्ठो द्रष्टति । स्वनिष्ठत्वेन त्यर्थः । कर्तृकणकर्मसु ननिष्ठत्वभ्रमो भवतीति पर्यवसितोऽर्थः । हेत्वन्तराह अस्येत्युकेरिति । पुरुषविशेषं प्रत्यात्मत्वमिति वकुःशत्रयत्वात् साक्षात्काराभिप्रा एव 'अभूत्' इति शब्द इति भावः । स्त्रविष्ट झिचिदपि नास्तीत्यर्थ इति । अदितिः पाशानिति न्यायादिति । “अदितिः पाशान् मुझेोक्त' इत्यत्र बहुवचनप्रतिपादितमपि बहुत्वं न विवक्षितम् । एवम् । अस्मिन् " (एतस्मिन्) इति विभक्तिविकारसूचितं पुंनपुंसकान्यतत्वमपि न विवक्षितमित्यर्थः । तथाप्यस्वारस्य मवर्जनीयमिति। अत एव हेि दशमे, “बार्हस्पत्यं ग्रहं गृह्यति ) इत्यन्न प्रकृत अज्ञानवादेन देवताविधाने तेषां बहुवादेकवचनयुक्तमिति उद्देश्यगतत्वेनाविवक्षामा मप्यभिधानबाधोऽवर्जनीय दूत्युक्तम् । किंच “प्रास्म। अमेिं भरते ? इति मत्रस्य सारस्वत्यामेवेष्टयां प्रतिपदिकार्थभूतलिङ्गविरोधादप्रवृत्तिरिति नवमे स्थापितत्वचेति भावः । तथाप्यस्खारस्यमिति चेदिति । समभिव्याहृतपदाप्रतिपन्नत्वादिति भावः। अभयहेतुप्रतियोगित्वादिति । पूर्ववाक्येऽभयहेतुतया यदुपन्यस्तं तद्विरुद्धस्यैव भयदेतृत्वेन प्रदर्शनौचित्यादिति भावः । पूर्वसिद्वैक्येति । “विद्ल लाभे ? इति धार्तरेव शविकरणमठिनादस्य रूपस्य संभवत् । * विद्ध ज्ञाने ?’ इत्यस्यावगत्यर्थस्य लुवकरणपठिनतया परस्मैपट्टितया चास्य रूपस्थासंभवत्। न च लाभार्थत्वेऽप्यैक्य मिदानीं लभत इति वक्तुं शक्यमिति शङ्कयम्, ऐक्यस्य पूर्वसिद्धत्वादिति भावः । प्रतियोगित्व धित्वेति । साहित्यप्रतियोगित्वविवक्षायां 'श्रटेन सह भेदः' इति तृतीया; अवधिावविवक्षायां 'भ्रष्टाद्वेदः ? इति पञ्चमी; संन्धविवक्षायां 'घटस्य भेदः? इतेि धृष्ठीति भावः ।