पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावरूपत्वे बेिरोोक्षझाझन् । ज्ञानविशेषणत्वे वाक्पद्वयमिति । ब्रह्मविशेषणत्व पक्षे येन ज्ञानेनास्तदोषत्वादिविशिष्टं तु संज्ञायते संदृश्यते गम्यते च तदेव ३ज्ञानम् , अन्यत्वज्ञानमित्येकवाक्यत्वमेव । ज्ञानविशेषत्वपझे तु येन ज्ञानेन पर. मात्मा ज्ञायते संदृश्यते गम्यते वा, तज्ज्ञानमस्तदोधूत्वादिविशिष्टम् ; तदेव ज्ञानमिति वाक्यद्वयं स्यात्, इतरथा तच्छब्दद्वयवैयथ्र्यसङ्गात् । न च “ तदेव शुतं तद्ब्रह्म तदेवामृतमुच्यते ?' इतिवत् स्यादिति वाच्यम् - तत्राप्यगत्या वाक्यभेदस्याभ्युप गन्तव्यत्वादिति भावः । अशब्दगोचरस्येत्यादिके पूर्वश्लोक इति ।

  • अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज ।

पूजायां भक्च्छब्दः क्रियते पचारतः ।।' इति श्रेोक इत्यर्थः । औपचारिक इत्युक्तमिति । ननु

  • श्रुतिवाक्थोदितं ब्रह्म तद्विष्णोः परमं पदम् ।

तदेव भगवद्वाध्यं स्वरूपं परमात्मनः । इति तत्पूर्वश्लोके परमारमन एव प्रस्तुततया , ' अशब्दगोचक्रस्यापि ! इत्यत्र श्लोके तच्छब्दः कथं मुक्तात्माने प्रामृशेत् इति चेत्; सत्यम्

  • तल पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।

शब्दोऽयं नोपचारेण हन्यत्र ह्यपवरितः ।। 1; इति परमात्मनि भगवच्छब्दस्यौपचारिकवासंभवात् पूर्वोत्तरवाक्ययोः परमात्मनो भगवच्छब्दमुख्यार्थत्वप्रतिपादनविरोधाच तच्छब्दस्याप्रस्तुतमुक्तपसमर्शित्वं वक्तव्य मिति भावः । प्रत्ययविशेषयुक्तस्य भरतेः स्वामिनि रूढत्वमिति । तृचूपत्यय विशेषयुक्तस्येत्यर्थः । भरतेः खामिनि रूढत्वमित्यत्र भरतेरित्येतदुपलक्षणम्। विभवत्यपि द्रष्टव्यम् । धातुमात्रस्येति । यद्य िडप्रत्यययुक्तस्य भ इत्यस्यैव स्वमिवाचित्वम्, न तु प्रत्ययविनिर्मुक्तस्य – तथापि तृत्प्रत्ययरहितस्यापीत्यत्र तात्पर्यम् । अथवा डप्रत्ययस्य साधुत्वमात्रार्थश्वमेव । अत एव “भकारोऽर्थद्वया म्बितः ! “गकारार्थः ? इत्युक्तमिति द्रष्टव्यम् । प्रवृत्तिनिमित्ते निष्कृष्योच्येते इति । अयमर्थः – अत्र भशब्दस्य संभर्तृत्वभर्तृत्वे द्वे अपि प्रवृत्तिनिमित्तापर्याप्त्यधि