पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९५

  • निव्यापारमनाख्येयं याप्तिमानमन्पभम् ।

प्रशान्तमन्सं शुद्धं दुर्बिभाव्यमवस्थितम् । विष्णोशनम्यम्येतं तज्ज्ञानं परमं पदम् ।। सन्न ज्ञाननिरोधेन योगिनो यान्ति ये लयम् । संसारकर्षणादेते यान्ति विजितां द्विज ।। समस्तहेयरहितं वेिष्टधास्ये परमं पदम् ।।' इति श्लोकक्रमः । एवं भवतेि भुक्तगुणतिदेशः कृत इति । ननु 'निघ्य पारम्' इत्यादिकमपि परमात्मस्वरूपमेवास्तु । “एवंप्रकारम्'इत्यपि नातिदेशकम्। अपितूक्तोपसंहाररूपमेवास्तु । न च पूर्वत्र “विष्णोः परमं पदम्' इति व्यतिरेक प्रतीतेः “एवंप्रकारम् ? इति श्रेोके, “विप्वाल्यं परमं पदम् " इति प्रतिपादना। भेदोऽवश्यं वक्तव्य इति वाच्यम् -* विष्णोः परमं पदम्' इत्यत्र पदशब्दस्य स्वरूपपरत्वेन घटस्य स्वरूपमितिवदुपपतेः । अन्यथा-- “श्रुतिवाक्योति सूक्ष्म तद्विष्णोः परमं पदम् । तदेव भगवद्वाच्यं स्वरूपं परमात्मनः || ', “तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय । । इत्यादावगतेः । न च पूर्वक्षेोकस्यापि ब्रह्मविध्यत्वे, “एवंप्रकारममलं नित्यं व्यापक मक्षयम्' इति व्यापकत्वादिकीर्तनवैयर्थम्, व्यापकत्वादीनां “व्याप्तिमात्रमनूपमम्” इत्यादिनोक्तरिति वाच्यम्-तस्योभाभ्यां समाधेयत्वात् । अत एव “ प्रत्यस्तमित मेदम्' इत्यस्यापि न मुक्तपरत्वम् । तत्र हि प्रकरणे वेदान्तवेद्यस्यादित्यवर्णस्य मूर्तस्य शुभाश्रयत्वमुच्यते । तत्र च मूर्तस्यैव शुभाश्रयत्वं वदता दिव्यात्मस्वरूपस्या लम्बनत्वं हि प्रथमतः प्रतिक्षेप्तव्यम्, न तु जीवस्वरूपस्य । परमात्मनो ध्येयत्वे सिद्धे परमात्मनः परिशुद्धस्वरूपे ध्येयत्वचिन्ताऽवतरति । ततश्च तन्निराकरणमन्तरेण शुद्धजीबस्वरूपध्येयत्वनिराकरणेऽपेक्षितपरित्यागोऽनपेक्षितस्वीकारश्च स्यादिति चेत