पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ चच्छब्दस्य निशिमात्रपर चेन मुक्तपरवासंभवेऽपि तुल्यन्यायतया मुक्तस्यापि प्रहणं सिध्यतीति भाव । ब्रह्मशव्दानामेकप्र.रणस्थानामिति | ' द्वे पे ब्रह्मा स्तस्य ”, “परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत् 'इत्यादीनां ब्रापरत्वात् “ अक्षरं तत्परं ब्रह्मा' इति परश5दसमानाधिकृन्ब्रह्मझब्द्रस्य जीनेऽत्यन्तास्वारस्याचेति भावः । ननु क्षराक्षरशब्दाभ्यां कार्यकारावस्थब्रह्म राम कार्यकारणभावानापन्नपरस्परभिन्ना झिज्योत्स्रादृष्टान्तासंप्रतिपत्तिरित्याशङ्कयाह-जगतो ज्योत्स्नास्थानीयत्वं चेति । स चेति । व्यतिरेकनिदैशस्वारस्थभङ्ग इत्यर्थ । ननु रूपशब्दः स्वरूपपरोऽस्तु; ब्रह्मणो द्वे रूपे मूर्तीमूत इत्येवं किं न स्यात् ? ततश्च न भावपधानत्वं विवक्षणीयम् नापि षष्ठयस्वारस्यमित्याशङ्कयाह - भावप्रधानत्वाविचक्ष्यामिति । स्वरूपरूपगुण विभूत्यादिषु स्वरूपरूपशब्दयोर्मेदेनोपत्तियोः स्वरूपशब्दास्वारस्यप्रसङ्गेन रूपशब्देन स्वरूपपरिहासंभवात् भावप्रधानत्वमवश्यं विवक्षणीयम् । अतो भूतसूर्तशब्दा स्वारस्यमिति भावः । यद्युच्येत् ब्रह्मणो द्वे रूपे इति । ब्रह्मणो द्वे रुपे इति प्रतिज्ञाय ब्रह्मा मूर्त चामूर्ते वेतेि कथिते मूर्तवानूतत्वे एव रूपे फलिप्यत इति भावः। धमैिपर्यन्तक्षराक्षरेति । क्षराक्षस्वरूपे ते मूर्तामूर्ते इति सामानाधिकरण्यं न स्यादित्यर्थः । अवस्थावद्वाचिजगच्छब्देति । * अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् ' इत्यत्रावस्थावद्वाचिद्रह्मजग्गच्छन्द्रयोः क्षरक्षरशब्दसामानाधिकरण्यायोगाचे त्यर्थः। शक्तिशब्दस्य कार्यवाचित्वायोगाचेति कार्यावस्थब्रह्मवाविायोगाचेत्यर्थः। शक्तिशब्दस्य कार्यवचिच्चाभावेऽप्युपचारेण कार्यपरत्वमस्त्वित्यत आह-उपचारती ऽपीति । अपृथक्सिट्रकार्योपयोग्यद्रव्यविशेषः शक्तिशब्दस्य मुल्यार्थः । औपचारिक प्रयोगे तु कार्योपयोगिविशेषणत्वमात्रं निमित्तमित्यर्थः । केचित्त-अत्र विशेषणपद्म पृथक्सिद्वविशेषणपरम्। वाशब्दश्चाध्याहृतंत्र्यः । ततश्च कार्योपथोगेि वा अपृथक्सिद्ध विशेषणं वा शक्तिशब्देन व्यपदेशमर्हतीति व्याचक्षते । मुख्यत्वमस्मन्मत इति । मुख्यकल्पत्वमित्यर्थः । अत एवोक्तं वेदान्तचान्यसिद्धाञ्जने शक्तिभिरूपणे

  • क्षेत्रज्ञाविद्यानां जगतश्च परब्रह्मशक्तिवव्यपर्देशोऽपि गौण्या लक्षणया वा ? इति ।

भावनालित्रयान्वयकथनादिति

  • ब्रह्मास्यां कर्मसंज्ञा च तथा चैबोभयत्मिका ।