पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता विशेषणं द्रष्टव्यम् । अश्याहारदोषादाह-यद्वा प्रश्वानशब्दानन्तर इति । “तदेव सर्वमेवैत' दित्यत्र तच्छब्दसामानाधिकरण्यमिति । यद्यपि व्यन्येयभाप्य क्रमानुरोधेन शरीरूपान्वंशेत्यादिभप्यं व्याख्यायैव तन्छब्दसामानाधिकरण नेत्ये तद्भाष्यं व्याख्यातुमुचितम्, तथाप्युदाहृन्पुराणवचनक्रमानुसारेण तच्छब्दसामानाधि करण्यं व्याख्यातम् । भाष्यक्ररेण तु शरीस्तन्वादिशब्दानां शरीरत्वसाधकस्फुट प्रमाणत्वादुदाहपुराणवचनक्रममन्ड्थ्यि व्याख्यातमिति द्रष्टव्यम् । (परोदाहृतपुराणत्रचनाथै :) देवादिशरीरं चोपाधित्वेन प्रतीयत इति ! जपाकुसुभादिवदात्मनिष्ठ भेदादिबर्मासञ्जकत्वेनोपधित्वम् । ननु भुक्तानामुपास्यत्याभावादिति । मुक्ता त्मान्तरस्य स्वमप्यत्वाभावेन तस्य शुभाश्रयत्वस्य वा योगयुक्चित्तालम्बनत्वस्य वाऽ प्रतिषेध्यत्वात उपासकम्वरूपस्य च कर्तृत्वादिबन्धाश्रयत्वस्यlप्राप्यत्वेन शुभाश्रयत्वप्रसते रेवाभावेन तत्प्रतिषेधेऽप्रसक्तप्रतिषेधत्वापसाद श्रेोकः परमात्मस्वरूपस्यैव योगयुझन आलम्बनत्वमतिषेधकः किं न स्यादित्याशङ्कय मुक्तानाविर्भविष्यतः स्वरूपस्य प्राप्यत्वे नोपास्यत्वप्रसक्तिसद्भावात्तस्योपासननिवृत्तयेऽयमुपदेश इत्याहेत्यर्थ । अनुसन्धाना ोपदेश इति निर्देशी 'मशकेभ्यो धूमः' इतिवत् द्रष्टव्यः । तथाननुसन्धा नायेति वा पाठः । केचित्-तथानुसन्धानाय । अनुपास्यत्वेनानुसन्धानायेत्यर्थ इति बदन्ति । असिन् प्रकरणे इति व्याख्येयं पदम् । कथं विष्णोर्विग्रहेकदेश इति। विष्णोः शरीरत्या िवष्णुधार्यस्य तद्धारकवायोगादित्यर्थः। शक्तित्रियसमावेशे एकैकस्या एव शक्तः कृत्स्रविग्रहाश्रयत्वासंभवमभिप्रेत्य विग्रहेकदेशाश्रयत्वोक्तिः । यद्वा विग्रहरूपोऽयमेकदेशः परिच्छिन्नः सदाश्रित इत्यर्थः । ननु विष्णोः शक्ति स्रयाश्रयभूतविग्रहासंभवेऽपि ब्रह्मणस्तादृशो विग्रहः संभवेदिति शङ्कामपाकरोति तदाश्रयभृतो विग्रह इति । परसंज्ञरूपगोचर इति । “तच विष्णोः परं रूपम् ? इत्यादौ व्यतिरेकिनिर्देशेन पंरूपस्य विष्णुभिन्नत्वावगमात् परशक्तिशब्देन पररूपस्यैव निर्देशात् “विष्णुशक्तिः ? इत्यत्र षष्ठीसमास एव युक्त इति भावः । विभज्यनिर्देशः कृत इति । विभज्यस्य निर्देशो विभज्यनिर्देशः, विभक्तव्यनिर्देश इत्यर्थः । द्वितीयान्तो विभागशब्दः कर्मणि घञ्जन्त इत्यर्थः । अयं भावः--यद्यपि