पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ श्रीरन्नरामानुजमुनिविरचितः पीति । यांद्रे विधिवाक्यमपारमार्थिकं भेदं परमार्थिकत्वेन बोधयेत्. तर्हि निषेध वाक्यमपि वस्तुत: एरमार्थिकमेव भेदमपारमार्थिकत्वेन किमिति न प्रतिपादये. दित्यर्थः । न केवलमाकारद्वय इति । त्वया हि सामानाधिकरण्यं बाधसापेक्ष मित्युच्यते, मया तू सामानाधिकाध्यस्य बाधसापेक्षत्वप्रतिषेधमात्रं न क्रियते, प्रत्युः बाधविरोधित्वमपीत्युच्यते । अन्यतरविरोधे सामानाधिकरण्यभङ्गप्रसङ्गादिति भावः । भाष्ये – जगञ्जन्मादिकारण ब्रह्मत्यवसिते सति इतिहासपुरा। णाभ्यामुपवृंहणं कार्यमित्ययमर्थ : 'इतिहासपुणाभ्यां वेदं समुपवृंहयेत् ? इति वाक्येन ज्ञायत इति योजन । श्रुत्वोपहणे कर्तव्यमिति “ इतिहासपुराणाभ्याम् । इति श्रीकात् प्रतीयत इत्यर्थः । न चोपवृंहणस्य श्रवणानन्तर्य नास्माद्वचनात् प्रती यते, श्रुत्वोपवृंहयेदित्याद्यश्रवणात् *उपवृंहयेत्' इत्येतावत एव श्रवणादिति वाच्यम्, उपवृंहणस्य श्रुतार्थविशदीकरणरूपत्वेनोपवृंहणे श्रवणानन्तर्यलाभात्। ततश्च, अवसिते सत्यमाद्वाक्यादुपवृंहणं कार्यमिति ज्ञायत इति कश्चमुच्यते ? श्रवणात् प्रागप्यभाद्वाक्यादर्थावगतिसंभव'दिति शङ्का पराकृता । केचित्तु पूर्वसाद्वाक्यादर्थाव गतिसंभवेऽश्यश्रुतवेदान्तस्य प्रवृत्यौपयिकोपवृंहणकर्तव्यताज्ञानस्यानुत्ते: श्रवणा नन्तरमेव प्रवृत्यौपयिकोपवृंहणकार्येनाप्रतीतिरुत्पद्यत इत्यर्थ इति मन्यन्ते । भार तादिप्रबन्धविशेषश्रवणायेति । ननु न्यायसिद्धानुवादित्वे कथमस्य वाक्यस्य भारतादिप्रबन्धविशेषश्रवणप्रवर्तकत्वमिति चेत् - न; अनुवादकस्याप्यस्य वाक्यस्य अक्षम दीव्यः कृषिमेित् कृषस्व' इति वाक्यवत् स्वाभाविकप्रवृत्तिविषयविमुखी करणद्वारेण प्रवृत्युपयोगाददोषौत । नन्वेवं तर्हति । “मामयं प्रतरिष्यति इति दृष्टार्थत्वप्रतिपादनमनुपपन्नमिति शङ्कार्थः । ततश्च दृष्टादृष्टरूपोभयविधप्रतिक्षेप कावं विरुद्धमिति न मन्तव्यम् । *कि ते कृण्वंन्ति कीकटेषु गावः' इत्यादेस्थः मर्थः – हे मघवन् कीकटदेशेषु ते गावः किं कुर्वन्ति, न कंचिदप्युपकारं कुर्वन्ती त्यर्थः । तदेवोपपादयति-आशिरं-नवग्र्यार्थे पयः न दुहन्,ि धम् प्रवर्याथै घृतं न ताक्यन्ति, धर्मोपयुक्त क्षीरं न प्रयच्छन्ति तद्देशस्थानां नास्तिकत्वात् । प्रमगन्दस्य कीकटाधिपतेः राज्ञः वेदः धनं नैचशाखं नीचाशक्निमरथम् आभर रन्धयं वर्धय इति । अयमर्थः द्राक् प्रतीयते । अन्न प्रभगन्दनामकराजवृत्तान्तप्रतिपादने नित्यायाः