पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० श्रीरङ्गरामानुजमुनिविरचिता स्यादित्याशङ्कय – उत्तरश्लोकः यमष्टिजीपर इति । अवच्छेदकन्यः अवच्छेद्यतया चेति । जगङ्गः कालपरिच्छेद्यत्वात् लन्याश्छेदकत्वं निमेषादिर्भि परिन्छिन्नत्वादवच्छेद्यत्वमप्यस्तीति भावः । भवतीति भूतमिति । अकर्मकत्वात् कर्तरि क्त इत्यन्न तात्पर्यम्, न तु कर्तमन्त्रेऽपीति द्रष्टव्यम् । क्षेत्रज्ञव्यष्टि विशिष्टमिति । “ज्ञानस्वरूपम् !ः इति क्षेोकस्बायमर्थः-ज्ञानस्वरूपम्-ज्ञानस्वरूप जीवशरीरकमित्यर्थः । अत्यन्तनिर्मलत्वादिकं च जीवद्वारा विशेषणम् । यथा महोदारः, महाप्राज्ञः ? इत्यादौ महत्कस्मैौदार्थज्ञानद्वारान्वयः । न च साक्षादेवा न्वोऽस्त्विति वाच्यम् , परमात्मनेि साक्षान्निर्मलत्वस्य “ अविकाराय शुद्धाय ?’ इत्यादिवाक्यप्रतिपन्नत्वात् सवैज्ञे तस्मिन् भ्रान्तिदर्शनतः स्थितत्वस्य च साक्षाद संभवात् सद्वारक एवान्वयो वक्तव्य इति । यदि निर्विशेषज्ञानस्वरूपब्रह्माधिष्ठानभ्रमप्रतिपादनपरं शास्त्रमिति भाष्ये शाभ्रपदस्य “ ज्ञानस्वरूपम् ? इतेि क्षेोकमात्रपरत्वमभिप्रेत्य तस्य परोक्तार्थ परत्वे उपसंहारविरोधप्रतिपादनपरतया यदीत्यादिभाष्यं व्याख्याय शास्रशब्दस्य एक श्लोकमान्नपरत्वमनुचितमिति मत्वा प्रवर्तिष्यमाणप्रक्षेत्रानुपपतिपरतया व्याचष्ट-थद्वा शास्त्रारम्भोपयोगीति । स्वयं निर्गुण इति छेदः । कर्मबश्यत्वकर्मसंबन्धार्हत्वयो पर्यायत्वं परिहरति-अकर्मवश्यत्वं मुक्तस्यापीत्यादिना । ब्रह्मण एव वस्तुत्वात् ब्रह्मणः शक्तय इति निर्देष्टव्ये ब्रह्मणे भावशक्तय इति निर्देशो न युक्त इत्याशङ्कयाह -निर्देशो ब्रह्मतादात्म्यमिति निर्देशवदिति । ऋक्षात्मकमिति वक्तव्ये ब्रह्मशब्द निर्दिष्टस्य पुनरपि तच्छब्देन परामर्शवदित्यर्थः । तादात्म्यशध्दस्याभेदपरत्वात् ब्रह्मतांदाल्यमित्यत्र नानुपपत्तिः, कृते तु, 'ब्रह्मणो भावशक्तय इत्युक्त भावस्य ब्रह्मण इत्यर्थो न लभ्यते, न हि घटस्य भावरूपमित्युक्त भावस्य घटस्येत्यर्थो लभ्यते इति चैत्-सत्यम्, समासैकदेशस्य नान्यविशेषणत्, तथापि ‘शिवस्य भागवतः' इत्युक्त शिवस्य भगवत्वलाभवत् ब्रह्मणेो भावशक्तय इत्युक्त अर्थात् ब्रह्मण एव भावरूपत्वं पर्यवस्यतीति भावः । एतदस्वरसादेवाह-यद्वा ब्रह्मणो भावशक्तय इति । अतत्पर्यन्तो मिथ्येत्यर्थ इति । त्वमेव स्वनिष्ठः । त्वदन्यः स्वनिष्ठो नास्तीत्यर्थः । ततश्च परमार्थशब्दः स्वनिष्ठपरः । परम -उत्कृष्टोऽर्थः परमार्थः ।