पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८० श्रीरङ्गरामाजुङमुनेिविरवेिता व्यवच्छेदार्थकं मात्रपदम्। तथा हि सति, 'विरोधिनिरसनमात्रं न संप्रतिपन्नम् ' इत्युके

  • इतरसहितं तु संप्रतिपन्नम् ? इति प्रतीयेत । अतो यथोक्त एवार्थः । तद्धि

साध्यं न संप्रतिपन्नमिति । ततश्च भाष्ये संप्रतिपन्नमिति शेषः पूरणीय इि भावः । नन्वप्रकाशितार्थप्रकाशक्त्कहेतैौ विकल्पेन दूषितेऽपि इन्द्रियदिव्यभिचार वारणार्थ भासमानत्वविशेषिततया पूर्वमुपन्यस्तो हेतुनै दूषित इत्याशङ्कय विशेष्य दूषणादेव विशिष्टोऽपि दूषित इत्याह-भासमानत्वे सत्यप्रकाशितार्थप्रकाशक त्वादिति हेतै विशेषितेऽपीति । अनुनाने पक्षस्योभयसिद्धत्वस्यापेक्षितत्वाचेदमनुमानरूपम्, अपितु प्रतेि कूलतरुपमित्यभिप्रयन्नाह – अथास्यानुमानस्येति । प्रयोगशब्दस्यानुमान एव प्रयोगप्रसिद्धिमाशङ्काह-तर्कस्यापि व्याप्तिमूलत्वादिति । यथाक्रममजुमान स्रयमिति । प्रतिकूलतर्कवयमित्यर्थः । ननु कथमेषामेतदनुमानप्रतिरोधित्वम् ? प्रत्युत स्वविषयावरणस्वदेशगतेतिविशेषणानुकूलत्वमेव ! ताभ्यां हि विशेषणाभ्यां ज्ञानसम:- नाश्रयं ज्ञानसमानविषयं चा(ख)ज्ञानं साध्यते। तत् कथं ऋतालुमानविरुद्धमिति चेत् न, अर्थानबोधात् । स्वदेशगतत्वस्वविषयावरणवस्वनिवर्यलानां साधनं चिन्माता श्रितत्वचिन्मात्रविषयत्वतिकूलं यथाक्रमंनुमानत्रयम् अज्ञानं पक्षीकृत्योच्यत इत्यर्थः । अज्ञानं न प्रमास्राश्रितं, नापि प्रमेयञ्जडविषयकम्, अपितु चिन्मालाश्रितं चिन्मात्र विषयकं चेति वदतः स्वदेशगसस्वविषयावरणेत्यनुमानोक्तिर्विरुद्धेति पर्यवसितोऽर्थः । ज्ञानानाश्रयत्वग्रसङ्ग इत्युक्त इति । अज्ञानं चेत्, ज्ञानं नाश्रयेदित्यर्थः। ब्रह्मणो ज्ञानन्वित्र्याज्ञानत्व इति । ज्ञाननिवत्र्याज्ञानविषयत्व इत्यर्थः । उत्तरोत्तर ज्ञानानां सपक्षत्वमपि खुपपद्यत इति । अपिशब्दो भिन्नक्रम । अज्ञाननुमितिवत् उत्तरोत्तरज्ञानानामपीत्यर्थः । अतो भाष्योक्तस्याज्ञानसाधनप्रमाणज्ञानस्याप् िदृष्टान्तत्वं न क्रुिध्यत इति द्रष्टव्यम् । यद्वा अज्ञानसाधकप्रमाणज्ञानस्योभयसंप्रतिपन्नत्वाभावात् उत्तरोत्तरज्ञानानां सपक्षत्वमुक्तमिति द्रष्टव्यम् । न वस्तुनो विनाशकमिति । प्रागभावस्थाभावरूपस्थावस्तुत्वात् वस्तुत्वेऽपि ज्ञानस्य स्वप्रागभावविनाशरूपत्वेन विनाशकत्वाभावाद्वा न बाध इति भाव । व्यतिरेकव्याप्ति द्विधा दर्शयतीतेि। ईश्वरयोगिज्ञानादौ शक्तिविशेषोपहणविरहरूपविशेषणविरहेण मुद्रादौ ज्ञानत्व