पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता समुद्रादिरूपकार्यान्तरावयवजलसमानपरिणामसंभवात् मरुभचिकाम्भोतिकान्तरे समुद्रादिलक्षणभौतिक्रान्त९बुद्धियथा यथां घटते, तथेत्यर्थः । अतः शुक्.यादौ रजताद्यवयवसद्भाव उपपद्यत इति। ननु त्रिवृत्करणं शुक्तौ जातसद्भावश्रेोजकं चेत् निवृत्कृततेजोंऽशस्य सर्वत्र पार्थिवे सत्वात् स्व रजतसादृश्यं स्यात् । तेजोवयवेषु तारतम्यासंभवात् पार्थिवेषु सर्वेष्वष्टमांशस्य तेजसः सर्वन्न सत्वात् सर्वक्ष तमः स्यादिति चेत्--न । अष्टाधीनपरिणानविशेषस्य कार्यानुरोधेन कचिदेव कल्प्य त्वेनादोषात् । अणुमात्रे च झुक्तित्व पुष्कलमिति । रजतत्वयुवर्णत्वपृथिवीवादि वच्छुक्तित्वादिजतिरवथवाक्यविनिष्ठा । न तु घटत्वपुरुषत्वादिवदवयविमान्ननिष्ठ : शुक्तिशकलेऽपि * इयं शुक्तिः ’ इति व्यवहारात् । यदि चात्र विप्रतिपत्तिः, तर्हि शुक्तिपदं रजतभ्रमधिष्ठानङ्गद्विपरम्, रङ्गत्वस्यावयवावथांबनिष्ठत्वेऽविवादात् । ननु पुरुषत्वादेरवयविमाननिष्ठत्वे स्थाणौ पुरुषत्वभ्रमः कथं निर्वो ढध्यः ? पुरुषस्बस्य पाणिपादसंघातवृत्तितया पुरुषावयवेषु पुरुषत्वस्याभावेनान्यथ ख्यात्यापतेः । किंच त्रीहित्वजातेरप्यवयवाक्यविनेिष्टत्वाभावात् ब्रहिभ्रमनिर्वाहानुप पतिश्च । नीवारदौ त्रीहित्वजातिसत्वे च मुख्थत्वमेव स्यात्, न प्रतिनिधित्वम्। अत एव मीमांसकैरपि, * सामान्यं तविकीर्षा हि ?” इत्यत्र,–“त्रीहिसदृशनीवारद्रव्येषु न त्रीहित्वजातिः । नापि व्यक्तिः, नीदारत्वजातिझ्यक्तयोः व्रीहेित्वज|तिद्यक्तयपेक्षथा भिन्नत्वात् । तथापि सदृशद्रव्योपादाने त्रीहिशास्त्रस्य कियानध्यनुग्रहोति । तथाहेि

  • व्रीहिभिर्यजेत इति ? व्रीहित्वज्ञातेः साधनत्वं बोध्यते । अमूर्नायाश्च जातेः

स्वतो हेतुत्वासंभावात् व्यक्तिपरिच्छेदमुखेनेति वक्तव्यम् । व्यत्तेरपि पुरोडाशादि निष्पत्तावधातादिशास्त्रपर्यालोचनया च तद्वयवद्वारा हेतुत्वं क्क्तव्यम् । ततश्च व्रीहित्वजातेत्रंहितदवयव रिच्छेदमुखेनाङ्गत्वात् त्रीहेित्वञ्जातेरिव व्थक्तितद्वयवा नामप्यङ्गत्वं सिद्धम् । ततश्च जातिव्यक्तयवयवा व्रीहिशास्त्रार्थाः । तत्र सदृशोपादाने जातिव्यत्योः शास्रार्थयोरलाभेऽपि तदवयवरूपशास्रार्थलाभेन व्रीहिशास्रमपि किंचि दनुगृहीतं भवतीत्युक्तमिति चेत्–न | यन्न जातेिरवयवावयविवृतिस्तत्र तत्प्रतीते यथ॥थ्र्यमस्ति । इतरत्र तु प्रभाकरोक्तरीत्या अख्यातेिः । यथा पञ्चलोहारब्धे कार्ये सर्वापि लोहप्रतीतिर्यथार्थेत्यत्रैव भाष्यकृतः संरम्भः ।