पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५४ श्रीरङ्गरामानुजमुनिविरबेिता तस्मान्न विज्ञानमृतेऽति किंचित् कचित् कदाचिद् द्विज वस्तुजातम् । विज्ञानमेकं निजकर्मभेदविभिन्नचितैर्बहुधाभ्युपेतम् । ज्ञानं विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् । एकं सदैकं परमः परेशः स वासुदेवो न यतोऽन्यदस्ति । सद्भाव एवं भवतो मथोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतत्तु यत् संयवहारभूतं त्लापि चोक्तं भुवनाश्रितं ते । यज्ञः पशुर्वह्निरशेष ऋत्विक् सोमः सुरा स्वर्गमयश्च कामः। इत्यादि कर्माश्रितमार्गदृष्ट भूरादिभोग (भेद) श्च फलानि तेषाम् । इति दशाक्षेोकी पठिता। [यचैतदुवनगतमिति मूोक्तपाठः।] नात्र विगानमिति। यद्यपि * यदस्ति यन्नास्ति ६. विपक्ये । इत्यत्रातिनातिशब्दोर्भावाभावरूपेण प्रतिपन्नवस्तुपरतया योजयितुं शङ्गयत्वादस्तिशब्दस्यात्मपरत्वे विगानं संभवति--तथापि नास्त्यसत्यशब्दयोरचेतनपरत्वे न विवादं इत्यत्र तात्पर्यम् । अपितु कर्मपरत्व मेवेति । कर्ममूलचैविध्यानुसन्धानपरत्वमेवेत्यर्थः, उत्तरत्र तथाभिधास्यमानत्वात् । वियु सूक्ष्मरूपमिति । परस्परमुपकरणोपकरणिभाववियुतं प्रकृतिपुरुषयोः सूक्ष्मं रूपमुच्यत इत्यर्थः । आदिभरतचरि' हृत्थमिति । “मैत्रेय. तस्य चरितं कथयिष्यामि ते पुनः ! इति प्रथमाध्याये उपक्षिप्तत्वदिदानीं हृत्स्थमिति भावः । ननु संक्षेपशब्दस्य सकलशास्त्रार्थसंक्षेपपरल्वसंभवे प्रथमाध्यायोक्तप्रतिज्ञावशेनादिभरत चरितस्य बुद्धिस्थत्वं परिकल्प्य, एतस्य तत्संक्षेपवकल्पनं.ष्टिम् । किंच तत्संक्षेप रूपत्वं प्रतिज्ञातं चेत्, विस्तरकथनस्य स्वत प्राप्ततया * भगवन्. संर्वभाख्यातम् । इति मैत्रेयस्यादिभरतचरितप्रक्षेो न युक्त इतेि चेत्-न । सकलसंक्षेपरूपत्वे वक्ष्यमाणसंक्षेपरूपत्वमपि संभवतीत्यत्र तात्पर्यात् । सत्तामात्रमगोचरमिति । यधपि नैतानि वाक्यान्येतत्प्रकरणस्थानि, तथापि “ज्ञानस्वरूपो भगवान् यतोऽसै ) इत्यादीनामेतत्प्रकरणस्थानां तत्समानार्थत्वं वक्तव्यमित्यभिप्रायेण तथोक्तमिति द्रष्टव्यम् । अधीतानधीतशाखार्थज्ञापनार्थतिीति । अत्रेति: समाप्तौ । विष्णुरात्मेतीत्यस्य वाक्यस्य व्यवहितेनापि “ शरीरात्मभावः । इत्यनेना न्वयसंभवे अभिप्रेत्येत्यध्याहारोऽनुचित इत्यभिप्रेत्याह--शरीरात्मभाव इति वार्थ