पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक्रा (अविद्यापरपुराऽाथैः) २५५ मृ व्याचष्टे--अनीतशाखास्वापीति । वादात्म्येोपशोऽस्तीति । य इति शेषः उत्तरत्र ' तस्यायमेवार्थः । इति तच्छब्दश्रवणात् । अत्रेतिशब्दत्रयस्येति । एवमिहान्क्र मः–“यदधु वैष्णवः काय: ” इति श्लोकेन सकश्रुतिगत तादात्म्योपहणरूपस्य सामानाधिकरण्योपदेशस्य “ ज्योतींषि विष्णुः' इत्यारभ्य वक्ष्यमाणस्य शरीरात्मभाव एव निबन्धनमित्यभिप्रेत्याम्बुनो विष्णोः कार्यत्वेनाम्बु परिणामभूतं ब्रह्माण्डमपि विष्णोः शरीरमित्याहेति । न च 'विष्णुरात्मेत्यभिप्रेत्य इति पूर्वग्रन्थविरोध इति वाच्यम्, तस्य व्याख्यानन्तरत्वेनादोषात् । केचितु अनेन श्लोकेन तस्य विष्णुरात्मेत्यभिप्रेत्य शरीरात्मभाव एव सामानाधिकरण्ये निबन्धनमिति तत्पर्यंत आहेति योजयन्ति । विश्वरूपो यतोऽव्यय इति ।

  • सर्वेन्द्रियान्त:करणं पुरुषाख्यं हि यज्ञत् । स एव ? इति सामानाधिकरण्येन

निर्देिश्य कथमिदं भिन्नयोः सामानाधिकरण्यमित्यपेक्षायाम्, “सर्वभूतात्मा विश्धरूपो यतोऽव्ययः' इति शरीरात्मभावस्य *यतः ? इति पञ्चम्या कण्ठो हेतुतयोक्त रित्यर्थः । इदं च वेदार्थसंग्रहे भाप्यकृतां सुव्यक्तमुक्तम् । पादत्रयस्यार्थ उच्यत इति 1. * यदस्ति यन्नास्ति च विप्रवर्य ? इति चतुर्थपादार्थस्य “ अत्रास्त्यत्मकं नास्त्यात्मकं च” इत्यादिभाष्यग्रन्थेनानुवादसुखेन स्फुटीकरिष्यमाणत्वात् पादत्रयस्यार्थ उच्यत दुयुक्तम् । केचितुः--असंकोचेन पादचतुष्टयस्याप्यर्थ उच्यते, श्रेोक्रमात्रस्य शरीरात्मभावायत्ततादात्म्योपदेशफ्रवे विप्रतिपत्यभावात् । इयांस्तु विशेषः – पादत्रयगतानां ज्योतिरादिपदानां निर्णी तार्थतया न जिज्ञासा । चतुर्थपाद्गतातिनातिशब्दयोरनिर्णीतार्थतया तत्र जिज्ञासया तत्पादार्थमात्रस्यानुवादोपपतेरिति वदन्ति । विशिष्टवाक्यार्थानुवादेनेति ।. पर्यव सन्नवाक्यार्थानुवादेनेत्यर्थः । नास्त्यात्मकत्वे' हेतुरयमित्याहेत्युक्तमिति । न त्वस्यास्यात्मकत्वे हेतुयमित्याहेत्युक्तमित्यर्थः ।