पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ ० भूतं किमपि न श्यत इति चेत्, सत्यम्; अचि ट्रस्तुनोऽमत्यशब्दपतृप्तिनिमित्तः कक्ष्यवाचिपदानन्तरपदस्येति । कर्मक्षयवाचिदं विशुद्धमिति पदम्। तदनन्तपदं विभलमिति पदम् । शरीरसन्न्धरहितपरत्वेनेति । प्रकृतिस्पर्श रहितमित्यस्य शरीरसंबन्धरहितमित्यस्य च समानार्थत्वादिति भावः । चिदचित्सा धारणाविति। विदचिद्विवेकपरत्वादिति भावः । अन्येष्वपि शब्देष्विति । सदसदादि शब्देष्वित्यर्थः । ननु * स्वर्गमयश्च कामः ? इत्यस्य काम्यमानस्वर्गपरत्वमेव किं न स्यादित्याशङ्कय, “ भूरादिभेोगाश्च फलानि तेषाम् !” इतेि फलस्य वक्ष्यमाणत्वात् स्वर्गेच्छापरत्वमेव युक्तमित्याह--फलस्य वक्ष्यमाणत्वादिति । ननु “ यज्ञः पशुः। इत्यादिश्लोकस्य कथं कर्मस्वरूपप्रतिपादनपरत्वम् ? पश्चदीनां यज्ञशेषतया तदनु ५वेिष्टत्वेऽपि वह्निशब्दनिर्दिष्टदेवताथा भूरादिभोगानां च फलभूतानामतच्छेषभूतानां कर्मत्वासंभवादित्याशङ्कयाह-देवतायाः फलस्य चेति । सर्वत्र ऋजति हीति । बजत्येवेत्यर्थः । कर्मवश्यो हीति । कर्मक्य एवेत्यर्थः । ध्रुवमचलं रूपमिति । “यचैतद् भुवनगतं मया तोक्त सन ब्रजतिं हि तत्र कर्मवश्यः । ज्ञात्वैतद्भवमचलं सदैकरूपं तत् कुर्याद्विशति हेि येन वासुदेवम् ।।' इति श्लोकस्यै: * धुक्मचलं सदैकरूपम् ? इति पदैः क्रमेण स्वरूपती रूपतो गुणतश्चैकरूप्यमुच्यत इत्यर्थः । सदैकरूपमित्यत्र रूपत ऐकरूशयस्योचितत्वभगि प्रथन्नाह-यद्वा स्वरूपतो गुणतो रूपतश्रेति । पूर्वेषान्वय इति । सिद्धान्तोऽ क्रमगतप्रतिज्ञाबाक्येन “नैतदेवम्' इत्यनेनान्वय इत्यर्थः । नासद्विलक्षणपरावित्यर्थ इति । यथा ब्रह्माणेि प्रयुज्यमानावस्तिसत्यशब्दो न सदसद्विलक्षणपरौ, एवं प्रपत्रेऽपि प्रयुज्यमानौ नास्त्यसत्यशब्ौ न सदसद्वैलक्ष्य परावित्यर्थः । अर्थद्वारको विरोध इति । यद्यपि सदसद्विलक्षणत्वमपि सत्वरुिद्धं भवति-तथापि सत्त्वाभावमेवासच्छध्दो वदेत्, नातिरिक्तमिति भावः ।विनाशित्वमेव हि मिथ्यात्वमिति शङ्कयामिति । तटस्थशङ्कायामित्यर्थः ; मृषावादिनस्तादृश्या