पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६५ पारमार्थम्रममात्रेणापि तद्वाधकज्ञानानुत्पत्तिस्थले निवृति: संभवति, तथापि भ्रमर्याः पलाशपुष्पत्वज्ञानादेव सा श्रान्तियत्र निवृत्ता सदभिप्रायेण तथोक्तमिति द्रष्टव्यम् । न स्यादिति चेदिति । नश्येदिति चेदित्यर्थः । ननु-न तस्यैव निथ्यात्वं सत्यत्वं च प्रसज्यते । विनाश्यविनाशकभावलक्षणबाध्यवाधकभावस्य मिथ्यात्वसत्यत्वनिरपेक्ष त्वात्, तुल्यसत्ताकयोरेव पूर्वोक्तज्ञानर्विनाट्यविनाशाकत्वलक्षणवाध्यबाधकत्वदर्शनात् । न च बाधकज्ञानविषयस्य सत्यत्वं बाध्यज्ञानविषयस्य मिथ्यात्वं चपेक्षितमिति चरम ज्ञानविषयस्य मिथ्यात्वसत्यत्वे स्यातमिति वाच्यम्, तस्याद्याप्यसिद्धेरित्थस्वरसादाह किच प्रपञ्चोऽपीति । स्वयं नाशेऽपि नाशस्यावस्थान्तररूपत्वादिति । न च परतो नाशेऽपि नाशस्याधस्थान्तररूपत्वदितेि सुवचमिति वाच्यम्, ज्ञानेन निवृतिस्थले मूलभूताविद्याया एव निवृत्तिरिति नावस्थान्तरापतिलक्षणेो विनाश इत्यत्र तात्पर्यात् । अत एवं यन्न मुदूरप्रहारेण घटनाशस्तत्र स्वकारणे विलयमात्रमेव; न तु घटंस्यात्यन्तनिवृतिः । यत्र तु शुक्तिज्ञानेन रजतनिवृत्तिः, तत्र स्वोपादानेन सह नि:शेषनिवृत्तिः, न तु स्वकारणे विलय इति परभ्युपगम इति भावः । राजकुमार संमाधिरिति । समन्वयाधिकरणभांप्ये , “कश्चिद्राजकुमारः' इत्यादिना स्पष्टयिण्यते । उत्

  • राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते ।

यथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यत ॥ ! इति । सार्वज्ञयादिगुणकत्वस्य प्रत्यक्षाद्यगोचरत्वादिति । यद्यपि पूर्वसंदर्भमति पन्नस्य सार्वश्यादिगुणकस्योद्देश्यत्वं संभवति, तथापि तत्पक्षे * असि ? इति मध्यम पुरुषानुपपत्तिरितिं दूषणं द्रष्टव्यम् । अन्तर्यामिणः प्रत्यक्षागोचरत्वादिति । यदि चान्तर्यामी पूर्वप्राप्तः, तदोपदेशवैयथ्र्यमिति द्रष्टव्यम् । ननु “ऐतदात्म्यम् । इत्यनेन शरीरशरीरिभावस्य प्राप्तबेऽपि वंशध्दतदर्थतद्बुद्धीनां परमात्मपर्यन्त त्वरूपस्य “ तत्त्वमसि ) इति वाक्यप्रतिपाद्यार्थस्यप्राप्तत्वादुद्देश्योपादेयसिद्धिरित्याशङ्कय तस्यापि प्राप्तिमुपपादयति--अस्मिन्नेव प्रकरण इति । इदं च त्वमादिशब्दानां परमात्मपर्यन्तत्वमिति * तत्वगसिं ? इत्यस्यार्थ इत्यभ्युपगम्योक्तमिति द्रष्टव्यम् । उद्देश्योपादेयविभागवत्वभ्रान्तिरेवेति । नतुं “ अििहंगस्य भेषजम् ? इत्यादौ