पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ श्रीरङ्गरामानुजमुनिविरविता प्राप्त्यप्राप्तिनिबन्धनानुवाद्यत्वविधेथत्वाभावेऽपि निर्देशातस्वातन्त्र्यपारतन्त्र्यरूपोद्देश्यो पादेयविभावत्वे न दोषः । न चालुवाद्यत्ववित्रेयश्चे एोद्देश्यत्वोपादेयत्त्रे इति वतं शक्यम् -- * पौर्णमास्यां पौर्णमास्या यजेत ? इम्याद्वनुपादेयस्यापि कालस्य विधेयत्वदर्शनादिति भावः । केचित्तु-उद्देश्योपादेयशब्दानुवाद्यत्वविधेयत्वपराविति वदन्ति । प्रापकवाक्यस्थोद्देश्यवाचीति । यद्यपि वंशब्दस्य “ऐतदात्म्यमिदम् । इति प्रापक्रवाक्यस्थविधेयचाचकैतदात्यशध्दवाच्यपमात्मपर्यन्ततया विधेयत्ववाचि त्वमपीति न विनिगमकमति, तथाप्यसति विनिगमके द्वयोरपि प्रयोगार्हत्वात् मध्यम पुरुः प्रयुक्त इति भावः । तदनुरोधेन मध्यभनिर्देश इतीति । यद्यपि -- मानान्तरसिद्धत्वेऽपि त्वंशब्दार्थस्य तच्छब्दार्थप्रकृतित्वविवक्षायां प्रकृतेरेवासिक्रिया कर्तृत्वान्मध्यमपुरुषो भवति । अत एव “यदझे स्यामहं त्वं त्वं वा स्या अहम् ? इति मन्त्रे 'अहं स्वं स्थां, त्वं वा अहं स्या: ? इति प्रकृत्याश्रयःपुरुषो भवतीति “युष्मद्युक्पदे ' इति सूत्रे प्रतिपादितम् । ततश्च त्वदात्मक एव सर्वज्ञत्वादिगुणको जगत्कर्तेत्यमर्थः पर्यवस्यति, विवक्षानुसात्त्विाच्छब्दप्रवृतेः मानान्तरसदसद्भावयोर प्रयोजकत्वात् । अत एव हि “आत्मेति तूपगच्छन्ति ? इत्यधिकरणे आचार्याः स्वयमेव तथा वक्ष्यन्ति-तथाप्यलोपायान्तरमुपन्यस्तमिति द्रष्टव्थम् । सदायतना इत्यनेनाधाराधेयभाव उक्त इति । “सन्मूलाः सप्रतिष्ठाः !’ इत्यत्र सच्छब्दो विशिष्टपः । प्रजाशब्दोऽपि कार्यावस्थब्रह्मपरः, केवलस्योपादानत्वासंभवत् ।

  • सदायतनः ? इत्यत्र तु सध्छब्दो विशेष्यस्वरूपमात्रपरः । प्रजाशब्दोऽपि न

ब्रह्मपर्यन्तः, अपित्वचिद्विशिष्टजीवमात्रपर । बैरूप्यमपि प्रामाणिकत्वादभ्युपेयम् । अथवा अजाशब्दः सख विशेषणभात्परः । अस्मिन्नपि पक्षे उपपत्तिः प्रागेव दर्शिता । सन्मूला इत्यादिवाक्यैकाथ्यदिति । “सर्व खलु” इति वाक्ये इतिकरणेन हेतुत्वं स्पष्टम् ; अन् इत्यस्य शरीरशरीरिभावार्थवभस्पष्टम् । “सदाथ तनाः ? इत्यत्र शरीरशरीरिभावः स्पष्ट: ; हेतुत्वमस्पष्टम् । ततश्च नष्टश्वदग्ध रथन्यायेनोभयोरपि परस्पराकाङ्कतयार्थनिर्णायकत्वमिति भावः । शरीरात्मभावः फलित इति । आत्मत्वप्रतिपादनेन शरीरत्वमपि फ़लितमिति भावः । साधारण्यै स्यादिति । ततश्चान्यतरमात्रेऽपि पर्यवस्येदिति भावः । अयं