पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चुक्तमिति द्रष्टव्यम् प्रत्ययविधानमिति कथमिदं रूपमितेि न चेदनीयम् । श् दष्टाद्विव्यावृत्थमाहेति ! * शरीरभावेन ; इति पदस्मभिव्याहारेण

  • विशेषणत्व!” इति भाष्यस्यापृथसिद्धत्या विशेषणत्वमिति लभ्यते, न विशेषण

स्वभावमिति भावः । तत्र तत्र प्रयोगविषयेरनुवृत्ताकारदर्शनादिति । ननु जातिगुणद्रव्येष्वपृथकसिद्धविशेषणत्वायनुगतस्य मत्वर्थप्रत्ययनिरपेक्षसामानाधिकरण्य प्रयोजकस्य संभवेऽपेि देवादिशब्दप्रवृत्तिनिमित्तस्य शरीरजीधपरमात्मसाधारणस्य प्रवाहतीरानुगतगङ्गापदप्रवृत्तिनिमित्तस्येवैकस्याभावात् तच्छब्दप्रवृत्तिनिमित्तदेव्यत्वादि जात्याश्रयशरीरस्यैव मुख्यत्वम्, अतदाश्रयात्मनि तत्संबन्धालुक्षणैवास्त्विति चोद्यस्य कः परिहार उक्त इति चेत् – उच्यते-देवत्वादिकमेव' देवदिशब्दस्य शरीरात्म साधारणं प्रवृत्तिनिमित्तं 'स्थूले मनुष्यो देबः ? इत्याद्यनाधितप्रयोगवशात् देहस्य देवत्वाद्याश्रयत्वाभ्युपगमवत् 'देवोऽहं जानामि ' इत्यबाधितप्रयोगवशात् देवत्वाश्रय त्वस्यात्मन्यप्यभ्युपगन्तव्थत्वात् । न च देहात्मविवेककृतोऽयं प्रयोग इति वाच्यम्

  • नाहं देहः इति देहात्मविवेकवोऽपि “ नाहं देवो मनुष्यः ! इत्यप्रतीतेः । न

च-देहद्वारा देकत्वरूपप्रवृत्तिनिमित्ताश्रयत्वेऽप्यात्मनः साक्षात् प्रवृत्तिनिमित्ताश्रयत्वा भावान्न तच्छब्दवाच्यत्वम् । अन्यथा घटद्वारा घटत्वाश्रयभूतलस्यापि धटशब्दवाच्य त्वप्रसङ्ग इति वाच्यम्, तत्र 'भूतले घटत्वम्! इति वा 'भूतलं धटः' इति वा भूतलस्य घटत्वाश्रयत्कग्राहकस्याबाधितप्रमाणस्याभावेन तस्य घटशब्दवाच्यत्वाभावेऽपि “देवोऽहं जानामे ! इत्यबाधिततीतेर्देवत्वरूपप्रवृत्तिनिमित्ताश्रयत्वस्य , तत्त्वेन तच्छब्द वाच्यत्वस्याप्याबश्यकत्वात् | अपूर्वान्तिरितस्यापि यागादेः स्वर्गसाधनत्ववत् , आत रणान्तरितस्थपि पर्यङ्कादेः शयानदेवदत्ताधारत्ववत् शरीरान्तरितस्याप्यात्मनो देवत्वाद्या श्रयत्वं न विरुध्यते । भूतलस्य तु घटाधारत्वमेव । न तु घटत्वाधारत्वम्, तथा अप्रतीतेरिति विशेष । 'उष्णं जलम् इत्यादौ त्वबाधिप्रतीतिव्यवहाराभावात् नोष्णादिशब्दवाच्यत्वम् । अत एवापृथक्सिद्धविशेषणवाचिशब्दानां विशेष्यवाचित्वे दीपाद्यपृथक्सिद्धमभावाचिशब्दानामपि दीदिवाचित्वप्रसङ्ग इत्यादिक्षुद्रोपद्रवाणामपि नावकाशः, दीपादेः प्रभावरूपप्रवृत्तिनिमित्ताश्रयत्वाभावात् ।