पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिरिचितः ननु “मनुष्यादिशरीराणाम् ? इति भाप्ये तत्प्रकारत्वमपृथक्षसिद्भविशेष स्वरुपतयोच्यमानं दण्डादिप्बतिप्रसक्तमित्याशङ्कयहि-अन्यतरान्वितमिति । नन्वा मैकाश्रयत्तदेकार्थत्वयोरन्यतरन्तैि प्रकारत्वमपृथक्सिद्धविशेषणत्वमेित्ययुक्तम् व्यर्थविशेष्यत्वात् । किंच तथा सत्यात्मैकाश्रयत्यतदेकप्रयोजनत्वान्यतरप्रयुक्तमित्ये वोच्यताम् ; किमित्यात्मैकाश्रयत्वं तदेकप्रयोजनत्वमिति निर्देश इत्यस्वरसादपृथ्वसिद्धत्व प्रयोजकलयपरतया व्याचष्ट-यद्वा प्रकारत्वशब्देनेति । उत्तरत्र प्रकारत्व वेिवरण इति । न चान्भविशेषणतथैव प्रतीतेरिति भाप्यखण्डस्य प्रकारत्वप्रमाणोप न्यासपरवसंभबेन प्रकारवविवरणरूपत्वमसिद्धम् ; अत: प्रकार प्रकारतैकस्वभावत्व मित्यर्थः किं न स्यादिति वाच्यम् – तथा हि सति तदेकाश्रयत्वतदेकप्रयोजनत्व तद्विशेषणत्वैः शरीरस्यापि तत्प्रकारैकस्वभावत्वावगमादिति विशेषणत्वतप्रकारतैक स्वभावत्वयोरुपपद्योपपादकभावेव भेदेन निर्देशकं भाष्यं विरुध्येत । अतो विशे धणत्वं विशेषणतयैव प्रतीतत्वं विवक्षितमिति भावः । भृत्यादिदेहेष्विति । न च । भृत्यदेहस्य स्वामिप्रयोजनसाधनत्वेऽपि स्वप्रयोजनादेरपि साधकतया नातिव्याप्तिः शक्यशङ्गेति वाच्यम्, तथात्वे पतीपुत्रादिभोगसाधने शरीरेऽसंभवापतेरिित भाव । ननु प्रकारत्वे प्रकारतयैव प्रतीतिरिति व्याख्यातत्वात् विशेषणतया प्रतीतेः प्रकारतया प्रतीतत्वमित्युक्त साध्याविशेष इत्याशङ्कयाह – पञ्चमनिर्देशस्त्ौपचारिक इति । एतत् त्रितयमिति । त्रित्वोक्तिः “मनुष्याद्विशरीराणाम् ' इत्यादिभाष्धद्वितीय व्याख्याभिप्रायेणेति द्रष्टव्यम् । स्वरूपमिति । अत्र स्वशब्द आत्मीयाचीि भावः । प्रयोजकान्तराभावादेकसामग्रीवेद्यत्वं प्रयोजकमुच्यत इति । एक सामग्रीवेद्यत्वमपृथसिद्धविशेषणत्वे प्रयोजकमिति तदभावान्नापृथक्सिद्धविशेषणत्व मित्युच्यत इत्यर्थः । एवं सत्येव “ पृथग्रहणथोग्यस्य " इति भाष्यातरिकाग्रन्थैक रुप्यमुपपद्यत इति द्रष्टयम् । एकसामघ्रीवेद्यतास्वभावत्वव्यावृत्यर्थ इति । अत्र केचित्–“प्रकारतैकस्वरूपत्वं दुर्घटम् ? इत्यतैकशब्दस्येवेहापि कदा चिदप्रकारत्वव्युदाकत्वस्यैव युक्तत्वात् तस्यैबेह कथनाच तदेव युक्तम् । न त्वेकसी मग्रीवेद्यत्वस्वभावत्वव्यावृत्त्यर्थत्वम्, तदेकाश्रयत्वादीनामपृथकसिद्धविशेषणत्वावगम कत्ववदेकसामग्रीवेद्यत्वाभावाबगमकत्वाभावात् । अत एव “यदि तदेकाॐयत्वादिरेवा