पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७१ पृथक्रसिद्धविशेषणत्वे भयोजक ! इत्युत्तरग्रन्थातरिकापि न युक्ता, एकसामर्थ वेद्यत्वाभावस्थोक्तरीत्या पागसमर्थितत्वेनैकाश्रयत्वादिरेवेत्यनुवादासंभवात् । “ कथं तर्हि सहोपलम्भनियम ': इत्यध्ययुक्तम् । तस्य ह्ययमभिप्रायः – एकसामग्रीवेद्य त्वस्थापृथक्रसिद्धविशेषणत्वायोजकत्वे अपृथ्वसिद्धविशेषणेषु जातिव्यक्तयादिष्वेक सामग्रीवेद्यत्वानवश्यम्भावेन तन्निबन्धनः सहोपलम्भनियमोऽपि न स्यादिति । एवमाक्षि पन्तं प्रति 'सहोपलम्भनियमस्त्वेकसामग्रीवेद्यत्वनिबन्धनः' इति परिहारस्यायुक्तत्वात्। तदभ्युपगमेनैवाक्षेपस्य प्रवृत्तत्वात् । जात्यादौ सहोपलम्भनियम इत्यध्याहारस्यापि क्रुिष्ट त्वाच । किंच “पृथग्रहणयोश्यस्य प्रकारतैकस्वरूपत्वं दुर्घटम्' इति भाप्यस्य सहोपलम्भनियमशून्यस्य तप्रकारतैकस्वरूपत्वं दुर्घटमित्यर्थस्यैव स्वरसतः प्रतीतेः स एवार्थ उचितः । किं प्रकारतैकस्वरूपत्वे प्रमाणाभावात् तन्नास्तीत्यभिप्रायः ? उत प्रकारत्वस्य स्वभावत्वे यद्वस्तु यत्स्वभावविशिष्टं तद्वस्तु गृह्यमाणं तत्स्वभावयुक्तमेव गृह्यत इत्यपृथ्वसिद्धत्वस्वभावत्वे तद्विशिष्टमेव गृहेतेत्यभिभाय इति विकल्प्य प्रथमं दूषयति-भाष्ये जात्यादिवदिति । द्वितीयं दूषयति-भाण्ये सहोपलम्भनियम स्त्विति । सहोपलम्भनियमः = सहैव प्रकारतयोपलम्भनेियभ इत्यर्थः, “ सहैव प्रकारतया प्रतिपादयति ” इत्युक्तरभाष्यानुगुण्यात् । वस्तुग्राहकं प्रमाणं तत्तत्स्वभाव विशिष्टमेव गृह्यातीति नियमाभ्युपगमे बाधकं दर्शयति--यथा चक्षुपेति । पृथिव्याः स्वाभाविकगन्धरसादिसंबन्धित्वस्याग्रहवत् शरीरगतात्मप्रकारत्वंस्वभावत्वस्याप्यग्रहणेोप पतौ प्रमाणान्तरसिद्धप्रकारतैकस्वभावत्वत्यपहृवानर्हत्वादिति भाव इति वदन्ति । प्रथमविकल्पे द्वितीयशिरसीति ! अनुयायित्वादेकसामश्रीवेद्यत्वमपि प्रयो जकमिति द्वितीयकल्प इत्यर्थः। अनुगतप्रयोजकसद्भावादिति । तदेकाश्रयत्वादिरूपा नुगत प्रयोजकसद्भावादित्यर्थः । द्वितीयशिरसि गन्धादाविति । यद्यपि शरीरादिषु भिन्नसामग्रीवेद्येष्वपृथकसिद्धविशेषणत्वस्य समर्थितत्वेनापृथकसिद्धसामान्ये प्रयोजकत् शङ्काया अनुत्थानात् जात्यादिगतापृथकसिद्धत्नविशेषे एकसामग्रीवेद्यत्वस्य प्रयोजक त्वेऽपि तस्याप्रत्याख्येयत्वाच्च तप्रत्याख्यानं प्रकृतानुपयुक्तम्, तथापि पराभिमानखण्ड नार्थमुक्तमिति द्रष्टव्यम् । एकशब्द एकसाभग्रीवेद्यत्वव्युदासपरः । एवकारः सहोपलम्भनियमव्युदासार्थ इति । अत्र केचित् –एकशब्दोऽप्रकारत्वावस्था