पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ श्रीरङ्गरामानुजमुनिवेिरचेता व्युदासपरः, एवकारः वदन्ति । सहोपलम्भनियमैकसामीवेद्यत्वव्युदासपर इत्येव युक्तमिति भाष्ये-पदार्थविवेकप्रदर्शनायेति । देवादिशब्दैहिँ शरीरात्मानौ न विविच्य ज्ञापयितुं शकंौ । शरीरादिशब्दैस्तु विविच्य ज्ञापयितुं शक्याविति भावः । वैवक्षिकनिष्कर्षका इति । विवक्षायां सत्यां निष्कर्षका इत्यर्थः । विवक्षायां भव इंति अध्यात्मादित्वात् ठञ् ! जातिवचिशब्दवदपृथक्द्विविशेषणवाचित्वा विशेषादिति । ननु-नीलादिशब्दानां गवादिशब्दसाग्ये गवादिशब्दानां जाति मात्रे प्रयोगाभावबदं नीलादिशब्दानां गुणमात्रे प्रयोगो न स्यात् । प्रयुज्यते च १टस्य शुक्रुः ? इतीति चेतूं, मैबम्—गोशब्दवृत्तिनिमित्तस्य गोत्वानाश्रयत्वेन गोत्वस्य गोपदप्रयोगाविषयत्वेऽपि नीलपदप्रवृत्तिनिमित्तनीलत्वाश्रयत्वेन नीलरूपस्य तच्छब्दवाच्यत्वोपपत्तेः । विलिङ्गतया शब्दसाधुत्वायेति । प्रत्ययान्तत्वे, तु दण्डवान्, दण्डंवती, दण्डवत्' इतिवत् शुझदिशब्दानां ििलङ्गत्वं सिध्यति । उक्तं च भगवता कात्यायनेन-“गुणवचनेभ्यों मतुपेो लुगू वक्तव्यः, तथा च लिङ्ग वचनसिद्धिः । स्वरविशेषाय च भवति ? इति । नीलादिशब्देषु अर्शआद्यजन्तत्वा श्रयणे स्वरभेदोऽपि सिद्धो भवतीत्यर्थः । लिङ्गखराथै मतुब्लोपस्मरणमितेि । मतुठलोपादित्यरणमित्यर्थः । अतो मतुब्लोपस्य स्मरणा (वर) धत्वोक्तिरयुक्तेति चोखें निरस्तम् । अत एव हि रागशब्दस्येति । “गुणवचनेभ्यो मतुपेो लुक् " इत्यत्र गुणद्वारा गुणिवचनेभ्य एव मनुष्योपस्मरणात् रागशब्दस्य अतथात्वान्न मतुठलोप इत्यर्थः । वस्तुतस्तु मतुब्लोप्स्य वा अर्शअद्यजन्तत्वस्य वा अभेदोपचारस्य वा लक्षणाया चा आश्रय नीलादिशब्दानां गुणिवाचित्बभङ्गप्रसङ्गात् मतुब्लॅोपादिकं द्धिान्तेऽनभिमतमेव । * लिङ्गमशिष्यं लोकाश्रयत्वात् ! इति त्रिलिङ्गंता चोपपद्यत इति द्रष्टयम् । पृथिव्यांधपेक्ष्यैव गन्धादिशब्दानां नियतनिष्कर्षकत्वमिति । यद्यपि “गन्धः पृथिवी, * जलं रसः' इत्यादिप्रयोगेषु गन्धरसादिशब्दानां पृथिवी जलादिपर्यन्तत्वं दृष्टम्, तत्रं च तेषाौपचारिकत्वाश्रयणे “रसोऽहमप्सु' इत्यादीनां परमात्मभ्यौपचारिकत्वं युवचम्, रसाभेदोपचारस्यैव युक्तत्वात् । “रसोहमप्सु इंत्यादौ रसशब्दस्य रसवत्परत्वे * अंष् सर्वान् ? इत्यस्यायुक्तत्वाच तथापेि -