पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( तत्व मन्यर्थः) २७५ दर्शनादित्यर्थः । ततश्च “पटस्य शौक्ल्यम् ।) इत्यादैौ कविन् भावप्रत्ययसापेक्षत्व दर्शनं न दोघायेति ज्ञेयम् । जतिस्थले तु न कचेत् भावमत्यथानपेक्षत्वं दृश्यते । खण्डस्य गौः, मुण्डस्य गौ:: इत्यादिप्रयोगस्य जातिविषयस्य काप्यदर्शनादिति भावः । निरूढलक्षणाभ्युपगममुपपादयति -शुकुदिशव्दानां हीत्यादिना । निरूढिनम सर्वग्रयोगानुगतिरिति चेदिति । सर्वप्रयोगानुगता लक्षणा निरूढ लक्षणेत्युच्यते, न तु प्रचुरप्रयोगानुगतिरिति चेदित्यर्थः । अनुवृत्तो गोव्यवहार इति । इदं त्वापाततः, भावप्रत्ययानपेक्षप्रयोगस्यात्रैव दृष्टत्वे , “भावप्रत्ययानपेक्षत्वं च दुप्परिहर ' मिति पूर्वग्रन्थविरोधापतेरिति द्रष्टव्यम् । भवतां गौरवं स्यादिति । जातिव्यक्त्योः शब्दार्थत्ववादिनमित्यर्थ । प्रतिसंवन्धिभृतं द्रव्यमुपसर्जनतया प्रतीयेतीति । जातिः व्यक्त्याश्रया भवितुमर्हति जातित्वादिति आक्षिप्ता व्यक्तिरुप सर्जनतया भाथात्, पर्वतो वह्निमनित्यत्र वह्निवत् । पुत्रः पितेतिवदिति । पुलशब्दक्षिप्तपितृवाचिना पितृशब्देन पुत्रशब्दस्य सामानाधिकरण्याभाववत् जति व्यक्तिवाचिनो: 'गौः खण्डः । इत्याक्षेपकाक्षेप्यवाचिशब्दयोः सामानाधिकरण्यं न संभवतीत्यर्थः । विवक्षितेति । तस्यैविषयेत्यर्थः । विशेष्यत्वेनेत्येश्धाचष्ट प्रधानतयेति । तदवच्छेदार्थत्वात्तस्येति । पुत्रव्यावृत्यर्थत्वात् पितुरित्यर्थः । यद्वा प्रधानतया तदवच्छेदार्थत्वादित्यन्वय । प्रधानत्वेन तस्यावव्छेदः संबन्धः तदर्थत्वात् । प्रधानीकरणार्थत्वादिति यावत् । विवक्षितार्थप्रतिसंबन्धितयेत्यत्र विवक्षितपदव्यावृत्यर्थ (व्यावयै) माह-गङ्गायां घोष इत्यत्रेति । वस्तुतो गङ्गा संवन्ध्येय तीरं तीरत्वेनैव भासते; न तु गङ्गासंबन्धित्वेन; तथात्वे शक्त्या प्रवाहस्य लक्षणया तीरस्य च प्रतीतौ वृत्तिद्वयविरोधप्रसङ्गात् ! अतः प्रवाहत्यविवक्षितत्वम्। जातेस्तु शब्दप्रतीतौ विषयत्वमस्तीति भाव । इंदमुपलक्षणम्-कूलस्य लक्षणया वृत्योपस्थापितत्वात् प्राधान्येन भानं भवति ; अक्षिप्ताया व्यक्तेः शब्दवृत्याऽनुपस्थि तायाः प्राधान्येन भानं न'संभवतीत्यत्र तात्पर्यात् । अयमिह प्रयोगक्रमोऽभिप्रेतः यदि गोव्यक्तिः, तात्पर्यविषयसंबन्धितया भासमानत्वे सति गोपदवाच्या न भवेत्। तहिं गोपदजन्यप्रतीतिविशेष्या न भवेदिति । शब्दविशेषणोपलिटेति ; शब्दा दुपस्थितस्य शब्दादुपस्थितं मत्येव विशेषणत्वं, नक्षितं प्रतीत्यर्थः ।