पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाघ्रप्रकाशिका (सिद्धान्त संग्रहोपन्यासः) २७९ प्रतिपन्नशरीरभावस्य जगतः शरीरबाक्षिप्तः शेषशेषिभावः, पत्यादिशब्दाभावेऽपि सिध्यतीत्यर्थः । संवातुपरार्थत्वादिनि । संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तृभावात् कैवक्ष्यार्थप्रवृतेश्च ।। " इति संख्यञ्चोकः । संघातस्य सर्वस्वपि शयनासनादिवत् पाराश्रयवश्यंभावात् देहस्यापि संघातरुपतया पारायै सिद्धमेित्यर्थ । “अजोऽन्यः ? इति श्रस्येशेन प्रकृतिं जहति भुक्तऽन्यत्वप्रतिपादनमभिप्रवन्नाह-मुक्तौ भेदमाह अजामितीति । प्रधानप्रसङ्गोपेतत्वसाम्यादिति । यद्यपि “ पृथगात्मानम्' इति पूवाक्ये प्रधानमसङ्गोपेतत्वं नास्ति, तथाप्युपरितनवाक्यस्य प्रधानप्रसङ्गोपेतत्वात् तेन संगति स्तीति भावः । भमेत्यनेनेति । षष्ठया व्यतिरेकनिर्देशेनेति भावः । स्वभावा संकर इति । अध्यक्षत्वादिस्वभावासंकर इत्यर्थः । लयमकरणात् तमसोऽपि लय एोच्यते ; ततश्च ब्रह्मपरिणामवाद एवाभ्युप गतः स्यादिति शङ्कां वारयति-तसस एकीभावमात्रमिति । कार्यानुपयुक्ततमः शरीरक इति । अक्षरव्यक्तमहदादिरूपेण परिणतस्तमोंऽशोऽपरिणततमोंशचैक्यं प्राप्तावित्यर्थः । इदमपि शरीरलक्षणमिति । “यस्य चेतनस्य यत् द्रव्यम् । इत्याद्युक्तलक्षणलयवत् अन्तःप्रविश्य निवाग्यत्वमपि भाष्यकाराभिमतं शरीर लक्षणमित्यर्थः । अनुप्रवेशश्रवणाभावेऽपीति । “तन्नामरूपाभ्यां व्याक्रियत ? इत्यत्रेति शेषः । सामान्यशब्दस्य विशेषपदोपस्थतेि पर्यवसानं हि सामान्यविशेषन्यायः । अनुप्रवेशपूर्वकत्वस्य तु नामरूपव्याकरणस्वरूपानन्तर्गतत्वेन विशेषपदभतिपाद्यत्वा भावात् नायं सामान्यविशेषन्यायविषयो भवितुमतीत्यपरितोधादाहं --यद्वा सर्व शाखेति । यथा ग्राहकग्रहणेनेति । ग्राहकं साधिकारापूर्वम्; फलवत् परमापूर्व मित्यर्थः । “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ? इति वाक्यप्रतिपन्नमपूर्वं परमा पूर्वम् । तत्संनिधिसमाग्नातानां “समिधे यजति, ”, “त्रीहीनवहन्ति ? इत्यादि