पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८१ तः कालव्यानामग्नीषोमीयादीनां हविषामावास्यापंज्ञाभावेन वैगुण्यं पञ्चहोस्राऽभिमशः य निर्णीतम् । न च पञ्चहोस्रा आग्नेयमभिमृश्य चतुहाँल! अग्नीषोमीयादीनामभिमर्शः किं न स्थदिति शक्यशङ्कम्, “आसन्नानि हवींप्यमृिशति ?' इत्येकस्यैव विहितत्वात् । अत्र “हविरन्तरानुग्रहवशेन परं व्यवस्था'। इति टुण्टीका (आपदैवीय) ग्रिन्थपर्यालोचनया एकमेवाग्नेयास्यं कमें पौर्णमासीत्रिक्रे अमावास्यत्रिके चान्तःपतिम्; नाम्नेयकर्मभेदः । यदि भेदः स्यात्, प्रकृतै पौर्णमासीकालकर्तव्यग्नेयाभिमर्शने पञ्चहोतृगन्नमसतेरेवाभावा व्यवस्थाशङ्कातत्परिहारावसंगतौ स्याताम् । ततश् एकमेव कर्म झालद्वयोगि, यथाग्नि होन्नाख्यं कमें सायंप्राप्तःकालद्ववयोगीत्येव युक्तम् । अतोऽसोमयाजिविहितैन्द्रानेनैव पट्ल्बसंख्यापूरणं कर्तेव्थमिति । अत्र “उत्पतिवाक्यैः =“यदाग्नेयोऽष्टाकपालोऽमावा स्यायां च पोर्णमास्यां चायुतो भवति' इत्येवमादिभिः । उत्पतिवाक्यमिति प्रथमप्रति पतिजनकंवाक्यम्। पृथगुत्पन्नान्-पृथक्प्रतिपादितान्’ इति पाठक्रमस्तु समीचीनः । स्वर्गसाधनत्वाकारेणैकीकृत्य तत्कर्तव्यतया त्रिद्धातीत्यर्थे इतेि । तत्समुदाय द्वयमेकीकृत्य समुचित्य स्वर्गसाधनत्वाकरेण कामिकर्तव्यतया विदधाति । यथा व्यापृते षडपि यागाः स्वर्गसाधनं भवन्ति, तथा व्यापरितव्यमिति साधनत्वेन विदधा तीत्यर्थ इत्यर्थः । यद्वा, एकीकृत्य स्थितं तदिति योजना । समुदायीभूतै कर्मेत्यर्थे कारणावस्थः काय स्थश्च परमात्मैक एवेति । अयमत्रान्वयक्रम सदेव सोम्येदमग्र आसीत् ”, “ऐतदात्म्यमेिदं सर्वम् , * * सर्व खल्विदं ब्रह्म ); इत्यादि वाक्यं कर्तृ पृथक् अतिपन्ने वस्तुतियं सद्ब्रह्मादिशब्दयुक्तवचनभङ्ग्य कारणवस्थः कार्यावस्थश्चैक एवेति प्रतिपादयतीति । परमात्ममात्रवाचिभिः शब्दैरिति; अक्षरसवैज्ञादिशब्दैरित्यर्थः । अर्थसामर्थे दर्शयति--चिदवितोरिति । शब्दसामथ्र्य दर्शयति-सङ्कह्मशब्दावित्यादिना । दृष्टान्तदाष्ठन्तिकवैषम्यहेतु प्रतिपादनं भन्दफलम्; आत्मशब्दस्य व्यापकवाचिनः शब्दसामथ्र्यात् व्याप्यो पस्थापकत्वं च नास्तीत्यपरितोषात् स्वरूपपरिणामशङ्कानिवृत्यथैतया “विद्रविद्वस्तु शरीरिणः” इति भाष्यमवतारयति---यद्वा अक्षरान् संभवती विश्वमिति ।