पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ पृषदाज्यनयादिति । यथ! पृषदाज्यसंस्काराथ अवोदितमपि पान्नान्ममुपादीयते. तद्वदित्यर्थः । दर्शपूर्णमासयोः ‘अष्टावुपभृति शृङ्गाति ?” इति प्रयाजानूयाज्ञार्थ चतुगृहींतद्वयमेकस्यामुपभृतेि युगपद्रहीत ; तथैव पशौ प्राप्तम् । तत्रानूयाजानां द्रव्यविकारः श्रयते, *पृषदाज्येनानूयाजान् यजति! इति । पृषज्यं दधिमिश्रि तेभाज्यमेव । तत्र द्वयोरसंक्ररेऽवश्यंभाविनि चिन्:-किं कालभेदेन तस्यामेवोपभृति द्वयं प्रहीतव्यम् ? उत एकभिनेव काले पात्रभेदेनेति । तन्न तु “अष्टावुपभृति गृह्यति'; इति पालैकत्वं श्रुतम् । पदार्थक्रमस्तु पदार्थानां गुणः; पाठकल्प्यश्च । अत एकस्मिन्नेव पात्रे पृषदाज्यं गृहीत्वा प्रयाजेषु हुतेषु पश्चात् पृषद्वयं ग्रहीतव्यिमति प्राप्त उच्यते विकृौ चानुमानेन प्राप्तौ तुल्यं वलाबलम् । ! इति । एवं चाविशेषे सति प्रयाजाज्यग्रहणेनोपस्थितस्यानृयाजाज्यग्रहणस्याकरणे किंचित् कारणमस्तीति तदैव पालान्तरमुपादाय ग्राह्यमिति “विकारे त्यनृयज्ञानां पात्रभेदोऽर्थभेदात् स्यात्' इत्यत्र (४-२-१६.) चिन्तितम् । केचिसु- पृधराज्य शब्दार्थस्य दधिमिश्राज्यस्याज्यशब्देनैवभिधानसंभवात् *देवानाज्यपानावह' इत्यादि निगदेष्वाज्यपानित्येवमकृित एव प्रयोगः, न तु पृषदाज्यपानित्यूहेन प्रयोग इतेि दशमे (१०-४-२६.) नेिणतम् । तद्वदेहापि विशेष्यमालवचिनोऽपि शब्दस्य चिदचिद्विशिष्ट प्रयोग उपपद्यत इति वदन्ति । (निवृत्त्यनुपपि ) अर्थक्रियाकारित्वान् इत्यनेन हेतुभावानुपपत्तिरुक्ता । उत्पत्तिमत्वात् इत्यनेन हेतुमद्भावानुपपत्तेिति द्रष्टव्यम् । हेतुसापेक्षत्वं च न दृष्टमिति । प्रपञ्चस्य तु तत्सापेक्षत्वात् न मिथ्यात्वं युक्तमिति भावः । न चाङ्कुशदिसामग्रये भ्रमसामग्रीति । तद्भ्रमसामीत्यर्थः । भिन्नपियस्याभेदज्ञानस्वेति । वस्तुतो भिन्ने विषये उत्पन्नस्याभेदज्ञानस्येत्यर्थे । “उत्तमः पुरुषस्त्वन्यः ! इति स्मृत्युप हणीयायाः “पृथगात्मानम् ! इति श्रुतेः उपवृंहणात् पश्चादुपादानं कथमित्यत्राह-- मतीववसोरिति । स्मृत्योरब्यवसायार्थमित्यर्थः ।