पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (निवृत्त्यनुपपति: दावानलेति । यथा दावानलः इन्थनानि विनाय इन्धननाशे स्वयमेव नश्यति, तथेत्यर्थः । निवर्तकज्ञानं तद्विनाशश्च किमिति । ननु विनाशयैव दूष्यत्वप्रतीतेऽने ब्रह्मव्यतिरिक्तत्वादिविकल्पेऽभिप्रेत इति कथ मुच्यत इति चेत् - न । विनाशस्थ न केवलं ब्रह्मन्यतिरिक्ततया मिथ्यात्वम्; अपि तु निवर्तकज्ञानस्य मिथ्यात्वेन तत्प्रतियोगिकस्य वेिनाशस्यापि मिथ्यात्वमितेि दूषणस्फोरणाय निवर्तकज्ञानस्यापि ब्राम्वरूप्रव्यतिरिक्तत्वादिविकल्पे ऽभिप्रेत इत्युक्तम् । अत एव भाष्ये-तत्स्वरूपतदुत्पत्तिविनाशानां काल्पनिक् त्वेनेतेि ज्ञानस्वरूपस्य काल्पनिकत्वमुक्तम् । नन्वेवं ज्ञानस्वरूपवेिनाशयोरेव काल्प नेिकत्वस्य वक्तव्यतया ज्ञानोत्पत्तिकाल्पनिकत्वोक्तिः किमर्थचेित्--न । दृष्टान्ततया तदुपन्यासोपतेः । केचित्तु–“तत्स्वरुपतदुत्पत्तिविनाशानां काल्पनिकत्वेने' त्यस्य विनाशकल्पनोपपादकत्वात्, ' तद्विनाशो ब्रह्मस्वरूपमेवेतेि चेदिति भाष्येऽपि विनाश स्यैव प्रतीतेश्च विनाशपरिग्रह एव युक्तः; अतो निवर्तकज्ञाने ब्रह्मव्यतिरिक्तत्वादि विकल्पो न हृदयङ्गन इति वदन्ति । एवंरूपाविद्याया इत्यर्थ इति । उपादानो पादेययोरभेदोपचाशदेवमुक्तमितेि द्रष्टव्यम् । कालभेदव्यतिकरितगृहप्राङ्गणादि प्रदेश इति । कालविशेषविशिष्टदेशविशेष इत्यर्थ । तवापि चोदं शुल्यमिति वेदिति । निःशेषकर्मस्वरूपनाशो न स्यादिति भावः । विकल्पभिप्रायेणेति । चिन्मात्रेत्यनुक्त्वा ब्रह्मव्यतिरिक्तकृत्स्रनिषेधविषय ज्ञानस्येत्युक्तौ ब्रह्माशब्दार्थे चिन्मालव्यतिरिक्तानामपि केषांचिदनुप्रवेशसंभवेन ब्रह्म शब्दार्थव्यतिरिक्तकृत्स्रपारमाथ्यैनिषेधे विन्मात्रव्यतिरिक्तत्स्रपारमाथ्यैनिषेधाभावेन तस्य निषेध्यतया, निबर्तकज्ञानकर्मत्वादिति दूषणस्यालकतापतेश्चन्मात्रेतेि पद् मावश्यकमिति भाव । प्रथमै धप्रिश् इति ! उत्तरत्र ज्ञातृत्वधर्मविकल्पस्य करिष्यमाणत्वादेवमुक्तमिति द्रष्टव्यम् । स्वरूपमित्यस्य यथाश्रुतार्थवे ब्रह्मस्वरूपस्यैव ज्ञातृत्वे इति दूषणभप्यासामञ्जस्यं मन्वान आह-स्वरूपं स्वाभाविकमित्यर्थ इति । भाप्ये-अध्यस्तं चेदयं अध्यासस्तन्मूलाविद्यान्त चेत्यादि । अध्यस्तस्य ज्ञातुनिंबर्तवज्ञानाश्रयत्वलक्षणज्ञातृत्वस्य तत्कल्पकांविद्यायाश्च निवर्तकज्ञानानुगुणनद्या निवर्तकज्ञानोपजीव्यस्य तद्वाध्यत्वाभावादित्यर्थ । अत्र तस्मादित्युपसंहःरभाष्य