पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ श्रीरङ्गरामानुजमुनिविरचिता वतरिकाग्रन्थपर्यन्ती ग्रन्थेो लेखकदोषात् पतित इति वदन्नि' । भाष्ये नस्यापि त्रिरूपत्वादिति । निवर्तकज्ञानान्तरस्य कल्पकाविद्याज्ञातृसापेक्षत्वेन त्रिरूपः॥दित्यर्थः । प्रथमं कल्पं दूषयति भाप्ये-ब्रह्मस्वरूपस्यैव ज्ञातृत्व इति । ज्ञातृत्वस्य ब्रह्मस्व भविकत्व इत्यर्थः । तन्नाशस्य ब्रह्मस्वरूपत्वाभ्युपगमात् परमपुरुषार्थत्वमस्त्वित्यह भप्ये-तन्नाशस्य ब्रह्मस्वरूपत्वाभ्युपगम इति । तस्मात् साधनचतुष्टयस्येति । तस्मादिति व्याख्येयं पदम् । अन्म याथात्म्यबुद्धिसंस्कारशून्याकार इति । भगवच्छेषत्वज्ञानपूर्वकत्वराहित्यं केवला कारः । हानमुपादानं च न संभवतीत्यर्थ इति । नित्यनैमितिक द्यङ्गकं ब्रो पासनमनन्तस्थिरब्रप्राप्तिसाधनमित्यापतिप्रतीतिरनवगतकर्मविचारस्य न संभवतीत्यर्थः । न तु हानोपादानशब्दाभ्यामननुष्ठानानुष्ठाने विवक्षिते, ट्टिशकर्मान्नुष्ठानानुष्ठानयोस्रो पासनोपयुक्तत्वेऽपि ब्रह्मविचारानुप्युक्ततया ब्रह्मविचारपूर्ववृतत्वकथनावसरेऽनुपयुक्त त्वाद्विति द्रष्टव्यम् । (जिज्ञासाधिकरणशारीरम् । ननु “ वचनं व्याहृतम् ॥ इति वदतः कोऽभिप्रायः ? विचारः कर्तव्य इति सूत्राक्षरयोजनानन्तरम्, न कर्तव्यमिति पूर्वपक्षप्रदर्शनमथुक्तमिति वा, उत सिद्धव्युत्पतेः सूत्रकारणासूचनात्रैवं पूर्वोत्तरपक्षौ युक्ताविति वेति विकल्पमभिप्रेत्य प्रथमं दूषयति अथातो धर्मजिज्ञासेत्यति। प्राभाकरैरध्ययनस्याचार्यकाधिकारकत्वादिति। अयं भावः-मतद्वयेऽप्यध्ययनस्यार्थज्ञानार्थत्वाभावाद्विचारो नारम्भणीय इति पूर्वपक्षः , अर्थज्ञानार्थत्वादारम्भणीय इति सिद्धान्तश्च समान एव । भट्टमते विश्वजिन्न्याये नध्ययनस्य स्वर्गार्थत्वेनार्थज्ञानार्थत्वाभावात् धर्मविचरो नारम्भणीय इति पूर्वपक्षं कृत्वा-डष्ट संभवत्यदृष्टकल्पनाया अन्यायत्वादर्थज्ञानमेव फलम् । न चाध्ययन स्यार्थज्ञानसाधनत्वस्य प्राप्तत्वात् विधिवैयथ्यै शङ्कनीयम्, नियमार्थतयाप्युपपतेरिति सिद्धान्तितम् । गुरुमते तु “ आचार्यकनियोगार्थः स्वाध्यायस्तत्युक्तितः । प्रथमावगतत्वेन तद्धि युक्त प्रयोजनम् । 1. अद्यत्वे ग्रन्थो मुद्रित एव ।