पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (जिज्ञासाधिकरणशरीरम्)) २८५ न तु वाक्यार्थविज्ञानं तद्धि पश्चात् प्रतीयते ! तेनाविवक्षितार्थत्वाद् वेदस्यार्थविचारणम् । न कर्तव्यमतः शाखं मीमांसास्यमनर्थकम् ! :

  • स्वाध्यायोऽभ्येतव्य; ) इति स्वाध्यायाध्ययनस्य प्रयोजनापेक्षायां प्रथमावगतत्वेना

चार्यकनियोग एवास्य प्रयोजनम् । न त्वर्थज्ञानम् , पश्चाद्भावित्वात् । यद्यपुिरुषान्तर गामित्वेन बहिरङ्गमाचार्यकम्, तथापि प्रथभावगतत्वेन तत्सिद्धिरेवास्य प्रयोजनं युक्तम् । न त्वर्थज्ञानम्, पश्चाद्भावित्वात् । तेनान्यार्थत्वाद्वेदाध्ययनस्थाविवक्षितोऽर्थः । अविवक्षितश्च न निर्णेतव्य । निर्णिनीषितार्थयोजनाभावात् । अनिर्णेतव्यश्चार्थो न विचारमर्हतीति तदात्मकं मीमांसाशास्त्रानर्थकवादनारम्भणीयमिति पूर्वपक्षः । कथमाचार्यकरणविधिप्रयुक्तमध्ययनम्, न स्वविधिप्रयुक्तम् ? उच्यते- -न स्वाध्याय विधावस्ति नियोज्यः । तत्र चासति न प्रयोजकता युक्ता, प्रयाजादिनियोगवत् न ह्यनधिकारस्य स्वविषयानुष्ठापकत्वं संभवति, प्रयाजादिविधिवत् । न चाध्ययन विधेरधिकारी श्रयते । तस्मान्नास्य प्रयोजकत्वं संभवति ।

  • न च कल्पयितु शक नियोज्यः पितृयज्ञव !

अकल्पितेऽपि तस्मिन् यदनुष्ठानं प्रसिद्धयति । । स्यादेतत्-अश्रूयमाणोऽपि नियोज्यः पितृयज्ञवत् कल्प्यत इति । तन्न, अकल्पितेऽपि तस्मिन् यतोऽनुष्ठानं प्रसिध्यति । सिद्ध तस्मिन्नासौ कल्पयितुं शक्यः, अनुपपत्य भावात् । अनुष्ठानाधीनसिद्धिहिं नियोगस्तत्सिद्धयर्थमनुष्ठातारमाक्षिपन् अनधि कारिणोऽनुष्ठातृत्वायोगात् अनियोज्यस्याधिकारासंभवान् नियोज्यं कल्पयति, प्रयाजादि नियोगवत् । संभवति चेहाचार्यकरणविध्यनुष्ठापितेनैव विषयेणाध्ययननियोगसिद्धिरिति न नियोज्यकल्पनासंभवः । कथं पुनराचार्यकरणविधिरध्ययनं प्रयुङ्क्ते ? उच्यते उपनीयाध्यापनादाचार्यकं भवति । न चाध्ययनमन्तरेणाध्यापनं संभवतीति तदाक्षि पति । उपनथनमध्यापनसमानकर्तृकमेवावगम्यमानं तदङ्गमेव विज्ञायते । कथं समानकर्तृकत्वम् ? उफ्नीयेति क्त्वाश्रवणादेव । तसात् तदङ्गमेव । तस्य च द्वारा पेक्षायामुपनेयासतिरेव लिङ्गात् द्वारमवगम्यते । उपनेयो हि नकिंचित्करोऽङ्गमिति