पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिबिरचिता 5ा

सीयते । एवं च वैधमेवाध्ययनं कुर्वन् माणवकोऽध्यापन्नस्योपकारीत्यवगमात् तद्विषय मेवाध्यापनमाचार्यकसाधनमिति तद्रेण सर्वस्याध्ययनाङ्गस्य तदुकारित्वादध्यय नार्थय ऋतावत एवानुष्ठानसिद्धिः । तस्मादाचार्यकरणविधिप्रयोजनकत्वादध्ययनस्य:- विवक्षितार्थस्यात् वेदस्य, दर्थनिर्णयार्थ मारब्धव्यमिति । सिद्धान्तस्तु-सत्यमाचायैकरणविधिप्रयुक्तमध्ययनम् । न तु तत्सिद्धिरेवा प्रयोजनम्; अहेिरङ्गत्वात् । अन्तरङ्गवादध्येतृगतमेवार्थज्ञानं प्रयोजनत्वेनाध्यवसीयते । ननु प्रथमावगतत्वेन प्रयोजनपेक्षनध्ययनमध्यापनवेिभ्थवाताचार्यकमेव तात् स्वीक रोति । स्वीकृते च तस्मिन्नपेक्षाभावात् पश्चाद्रवगत्त्रेनान्तरङ्गमप्यर्थज्ञानं न भयोजनी करोति-मैवम्, प्रथममाचार्यकस्य प्रयोजनत्वानवकल्पनात् । यद्यल्पिते तस्मिन्ननुष्ठान मध्ययनस्य न सिध्येत्, ततः क्रुप्येत । न त्वेतदस्ति, अकूस्थितेऽपि तस्मिन्ननुष्ठान लाभात् । अनुष्ठिते वस्मन्नध्ययने प्रयोजनापेक्षायामन्तङ्गत्वादर्थज्ञानमेव फलमङ्गी क्रियते । ननु नियोग एव शब्दादवगतः प्रयोजनं स्य, नर्थज्ञानम् । न, अर्थज्ञानस्यापि प्रतीयमानस्य त्यागायोगान् । तेनोभयोरपि प्रयोजनत्यं युक्तम्, अवगतत्वादर्थज्ञानस्यं नियोगस्य च ! तलार्थज्ञानरुपं प्रयोजनं न विचारमन्तरेणाध्ययनेन संपादयितुं शक्यत इत्यध्ययनविधिरिव तंत्सिद्धचर्थ बिचारमाक्षिपतीति तदात्मकं शास्रमारब्धव्य मिति ब्यास्पतम् द्वितीयं दूषयति - अक्षरयोजनायां ब्रह्मविचारम्भ इति । प्रामाण्यसंभाधनानुपपन्नेति । उत्पन्नापीयमवगतिमूलाभावान्न समीचीना भवितु मर्हतीति प्रामाण्यसंभावना न भवतीति भावः । चोदनालक्षणोऽर्थ एव वेदप्रति पाद्य इतीतेि । “ अथाऽतो धर्मजिज्ञासा ” इति सूत्रे अथशब्दस्य वेदाध्ययना नन्तरमित्यर्थः । ततश्च वेदाध्ययनानन्तरं तदर्थजिज्ञासा इति सूत्रे कर्तव्ये, “ धर्म जिज्ञासा ! इतेि सूत्रयतो जैमिनेर्धर्म एव कृत्स्नवेदार्थ इतेि भावोऽवसीयते । ततश्धं कृत्स्रवेदार्थस्य धर्मस्य चोदनैव प्रमाणमिति चोदनासूत्रे कथनात् कार्यप्रतिपादकमेव वाक्यं वेदार्थे धर्मे प्रमाणामेत्युक्तं भवति । ततश्च कार्यमेव वेदार्थ इतेि फलति । ततश्चैवं वदतो जैमिनेः सिद्धार्थे व्युत्पतिरेव नास्ति । तत्प्रतिपादने प्रयोजनं च