पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अधिकरणसिद्धान्तः) द्विविधं हेि वाक्यार्थप्रक्रियाभेदमाहुस्तन्वनिष्ठाः--अन्विताभिधानम् , अभिहि न्य

  • पदजातं श्रुतं सर्वं स्मरितानन्धितार्थकम् ।

न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् । इत्यन्विताभिधानम् । अयमत्र श्रोकार्थः--पदानि तावत् श्रूयन्ते । श्रुतानि च व्युत्यनुसारेण पदार्थस्वरूपाणि परम्परानन्वितानि स्मारयन्ति ! स्मृतेषु पदार्थेष्वा काष्ट्रादिपरामः । ततो न्यायप्रवृत्ति । यायप्रवृत्त्या वचनभ्यक्तिविशेषाभिव्यक्ति संपद्यते । ततः सम्यङ्न्यायानुगृहीतानि पदानि नानापदार्थविशिष्टकप्रधानार्थात्मकं वाक्यार्थमभिदधतीति । अभिहितान्वयावादिनम्त्वेवमभ्यधु --पदैः पदार्थाः पृथक् पृथगभिधीयन्ते । तचाभिधानं पदार्थस्मरणमात्रे पर्यवसितम् , “पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते " इति वचनात् । ते चाभिहिताः पदार्थाः योग्यत्वेन परामृश्यमानाः स्वयमेव विशेषसंसर्गात्भकं वाक्यार्थमवबोधयन्ति । न तत्र पदव्थापारः अथैरेवार्थविशेषसिद्धे । यथा कविभिशलोच्यमानाः पदार्था एव घाक्यार्थमर्थविशेष संसर्गात्मकमवबोधयन्ति । पश्चादेव प्रतिपन्नार्थानुरोधेन शब्दरचना । एवमर्था एवार्थविशेषं बोधयन्तीति । ततश्च ‘अस्यायमर्थः' इतेि व्युत्पत्तावेकस्य पदस्य तदर्थमात्रपरतया व्युत्पतेस्तावन्मात्रस्यैवाभिधेयतया पदान्तरार्थान्वितार्थाभिधानं न सिध्येदिति भावः । प्रातिस्विकव्युत्पत्तरिति । प्रतिपदव्युत्पतेरित्यर्थः । अत्र तु पूर्वभाविनीति विशेष इति । अयमर्थः - यादृच्छिकव्युत्पतिस्यले गवानयने प्रवृत्युप लम्भेन ‘अस्य वाक्यस्य गवानयनकात्वमर्थः ! इति प्रथमतोऽवगत्य तत आवापोद्धार क्रमेण 'अस्य पदस्यायमर्थः' इति पदार्थत्वं निश्चिनोति । बुद्धिपूर्वकव्युत्पत्तिस्थले तु 'अस्य पदस्यायमर्थः । इति पदार्थत्वबुद्धिपूर्विका वाक्यार्थावगतिरिति । शब्दैरपि पर स्परान्वयोग्यत्वेन खार्थाभिधानमिति । पदानामेव पदार्थेषु संसर्गवोधनशत्या धानशक्तिरित्यर्थः । अत्र केचिदाचार्याः-शक्तित्रयगौरवं नास्त्येव, पदानामेव पदार्थाभि धानशक्तः स्वीकारत् । अर्थानां संसर्गबोधकत्वं तु स्वाभाविकमेव, शब्दाभिधानमन्तरे णापि प्रतीतानामर्थानां संसर्गबोधकत्वस्यं संभवात्; इतरथा कविकाव्यमूलज्ञानानुपपति प्रसङ्गात् । शब्दान्वयव्यतिरेकानुविधानेन शाब्दत्वस्याप्युपपतेः । अव्यवहितत्वस्य