पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योगितया सिद्धेरित्यनेन अनुयायिहेतुः (कार्योपयोगित्क्रुष:) कार्योपयोगित्वांमेयुक्त मित्यन्वयः । अत एव “ चरुमुपदधाति । वृहस्पतेर्वा एतदलम्, यत्रीवारा !! त्यत्रार्थवादसमर्पितो देवतासंबन्ध स्थण्डिलनिवृत्त्यौपयिकचम्पधानविध्यनाकाः तत्वान्नादर्तव्य इत्युक्तं द्वितीये, “संयुक्तस्त्वर्थशब्देन ” इत्यधिकरणे (२-३-७) ततश्च विध्यपेक्षितसम्पैकोऽर्थवाद आदर्तव्यः; नन्थ इति भावः । (अपूर्वकार्यत्वखण्डनम्)) अत्रार्थशब्देन प्राधान्यमिति । नन्वर्थशव्दस्य प्राधान्यपरत्वे किं प्रमाणम् न च * कार्यभर्थ प्रधानतया प्रतिपादयति ? इति पञ्चिकावाक्यं प्रमाणमिति वाच्यम् अर्थशब्दस्य प्राधान्यार्थत्वस्यास्माद्वाक्यादप्रतीते । तत्र ' कार्यरूपोऽर्थः समभि व्याहुनयागाद्यपेक्षया शेषितया प्रतिपाद्यत इत्यस्यैव प्रताते । नापि “कृतिसाध्यं प्रधानम् ? इति प्रकरणशालिकावाक्यं प्रमाणम्, तत्रापि वृतिप्रधानत्वरुपाथप्रतीतेः । अर्थशब्दस्य प्रधानपत्वे प्रमlगाभावाचेति चेत्--न । “कृतिमाध्यं प्रधानम् ? इति समभिव्याहारात् कृतिप्रधानवलाभात्, तस्यैवार्थशब्दांनर्देशार्हत्वादिति भावः । कृतिकर्मत्वं नाम प्रवर्तकत्वमित्यत्राहेति । यत्प्रकारकं ज्ञानं प्रवर्तकम्, तत् प्रवर्तकत्वमित्यर्थः । भाष्ये-कृत्युद्देश्यत्वं न किंचिदुपलभ्यते इत्यत्र कृत्यु हेश्यत्वमित्यस्य प्रवर्तकत्वमित्यर्थ इति तु ग्रन्थकृतो भाव । अयं भावः-कृतिभाव भावि कृत्युद्देश्यत्वं तन्मते कार्यत्वम् । कृतिसाध्यत्वे सति कृयुद्देश्यत्वमिति तदर्थः । तत्र च विशेष्यभूतकृत्युद्देश्यत्वं कृतिकर्मत्वम् । तच प्रवर्तकज्ञानप्रकार इति स्थितम् । प्रवर्तकज्ञानप्रकारश्च कृतिसाध्यत्वे सतीष्टतमत्वमिति सिद्धम् । तत्र च कृतिभाव भावीत्यनेनैव सत्यन्तत्य सिद्धत्वात् प्रवर्तकत्वमित्यनेन विवक्षणीयांशस्तु इष्टतमत्व मात्रमेव । ततश्ध कृतिभावभावित्वे सति प्रवर्तकत्वं नाम कृतिसाध्यत्वे सतीष्टतमत्व मिति पर्यवसितमिति । तत्र प्रेरकत्वं कृन्युद्देश्यत्वमिति । कार्ये प्रेरकत्व ज्ञानात् प्रवर्तते । ततश्च प्रवर्तकज्ञानप्रकारत्वात् कृतिकर्मत्वरूपप्रवर्तकत्वरूपत्रं प्रेरक त्वस्योपपद्यत इत्यर्थः (इति भावः)। न हि दुःखनिवृत्तिः सुखं भवतीत्यर्थ इति । अत्र केचित् --यथाश्रुतमेव युक्तम्, सुखव्यतिरिक्ताया अपि दुःखनिवृतेरनुकूलत्व दर्शनादिति शङ्काया यथाश्रुतेनैव निवर्यत्वादिति वदन्ति । अनिष्टनिवृत्तिरूपतया