पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशेिका { शेषलक्षणाम् २९७ स्टुःखनिवृत्तिसाधनतयाधीष्टत्वाभावात् न त्वदभिभतापू कार्यत्वमित्येवं भाण्याभि प्रथपर्यवसान्प्रतीतेः भावार्थस्वर्गव्यावृत्तं पराभिमतं कार्यत्वं निरक्रियत इत्यत्र त्रिनिगमकं न पश्याम् इत्यपि वदन्ति । ‘सुखार्थतयेति । न हि दण्डधकादिः दु:सात्मकत्वात् " इति ग्रन्थात् पूर्वं पठितव्यः । न कापि पठितव्यो वा, अनप्रियेोजनत्वात् । अतो व्युत्क्रमेण प्रतीक ग्रहणशङ्का न कार्या । अयोगव्यवच्छेदो विवक्षित इति । अत्यन्तायोग व्यवच्छेदो विवक्षित इत्यर्थः । ( शेषलक्षणम् । यथावत् प्रदइर्यत इति । भाष्यकृतेति शेषः । अस्थार्थ उच्यत इति । मयेति शेष । संतालाभेो ह्यतिशय इत्युक्तमिति । न तु सतैवातिशय इत्युक्त मिति भाव । ननु परगतातिशयेत्यत्र परशब्दार्थस्याधिकरणकारकत्वप्रतीतेः पूर्ववर्तिन एव कारकत्वात् उत्पाद्यस्थले चोत्पत्तिरूपतिशयं प्रति अपूर्ववर्तिनः कथं कारकव मित्याशङ्कय-अनुत्पन्नस्यापि बुछौं सूक्ष्मरूपेण विपरिवर्तमानत्वेन कारकत्वं संभवति । एवमेव हि जायमानस्य जनिकर्तृत्वमप्युपपादनीयम् । एवमेव हि नवमे भाविनोऽ पूर्वस्य निमित्तत्वं समर्थितमित्यभिप्रयन्नाह – स्वरूपस्याविद्यमानत्वेऽपीति । परातिशयः परमप्रयोजनमिति । नन्वेवं स्वर्गस्य पुरुषशेषत्वं न स्यात् । तद्धि कामवशात् विधिवशाञ्चावगन्तव्यम्, अन्यार्थस्य काम्यत्वासंभवात् । न ह्यस्वार्थ किंचित् कश्चित् कामयते। थदपि परार्थे किंचित् कामयते, तदपि परंपरथा स्वार्थमेव। तथा विधिवशा । विधिर्हि प्रवर्तनात्म । स्वर्गस्यात्मार्थत्वाभावे तत्साधने पुरुषस्य प्रवर्तकत्वानुपपत्तेरिति युक्तितूयचलात् स्वर्गस्यात्मार्थत्वं साथनीयम् । यदि च परार्थ मेव कार्यत्वं तदर्थे प्रवृत्तिश्च, तर्हि युक्तिद्वयमप्यात्मार्थत्वसाधकं न भवेदिति चेत्-न। यजेतेत्यात्मनेपदवलेन स्वर्गस्य कर्तृगामित्वावगमेन पुरुषार्थत्वप्रतीत्युपपतेरिति द्रष्टव्यम् । परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्खस्थमित्यत्र एव कारस्योपादेयत्वायोगव्यवच्छेदकतया कादाचित्कोपादेयत्वप्रयुक्तेषु प्रकृष्टकृथास्नेहान्वि 1. परार्थत्वमेव अन्नम्यत्वम् । पा०