पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० श्रीरङ्गरामानुजमुनेिनेिरविता व्यर्थ स्यादित्याशङ्कयाह--परीक्ष्य लोकानित्यादि वाक्यमिति । उद्देश्योपादेय विभागवदिति । यद्यपि * तत्वमसि ' इति वाक्यवदुद्देश्योपादेयविभागशून्यस्यापि वाक्यत्वं संभवति, तथापि सूत्ररुपवाक्यस्य तदूपत्वं वक्तव्यमिति भाव । विधेयै द्युपादेयमिति । यद्यपि देशकालादिविधौ विधेयस्यापि देशकालादेनोपादेयत्वम् तथापि प्रायिकत्वमभिप्रेत्यैतदुक्तमिति द्रष्टव्यम् । व्युत्पत्तिर्नास्तीति वाक्येनेति । पूर्वपक्षयुक्तिभिरित्यर्थः । अस्य सूरुस्याभवृत्तप्रवर्तकत्वमपि संभवति । यथा “कृष्णलं श्रयेत्' इत्यस्य श्रपणे प्रयोजनाभावेन निवृत्तस्य प्रतिप्रसवरूपतया विधित्वमित्याह अत्र हेि रागतः प्रवृत्तिभत इति । | वाक्यतर्करूपत्वादिति । वानयविचाररूपत्वादित्यर्थः । सकलेतरपुरुषा ति । कर्मणामरुपास्थिरफलत्वावरत्यनन्तरमनन्तस्थिरफलत्वेनापtततःप्रतिपन्नानां ब्रह्मतदनुबन्धितदुपासनतत्प्राप्त्यादीनां विचार्यत्वमिति हि जिज्ञासासूत्रार्थ इति भावः । ततश्चेतरत् परित्यज्य प्राप्यत्वेन प्रापकत्वेन ब्रहः जिज्ञास्थमित्यस्य कथं सूत्रार्थत्वमिति न् चोदनीयम् । व्थाग्यानन्तरोक्तजिज्ञास्यपदप्रयोजनं दूष्यति---अनेन जिज्ञास्यमिति पद् इति । भाष्ये जिज्ञास्यमिति पदस्य संगतिसूचनार्थतया व्याख्यातत्वेन यत् कैश्चि दुक्तं 'जिज्ञायमिति पदे प्रधानाचौपचारिकार्वाचीनब्रह्मशब्दार्थव्यावृत्ति:’ इति तन्नेत्यर्थः । ततश्च जिज्ञास्पद् इति सप्तमी ; न तु जिज्ञास्पदेनेति तृतीयेति मन्तव्यम्, नेत्यस्य पृथक्पदत्वेन निषेधार्थकत्वात् । तत्र हेतुमाह--तच व्यावर्त कस्येति । तच व्यावर्तनमित्यर्थः । वक्तव्यतया । उक्त्येत्यर्थः । अपिः संभव नार्थः, एवकारार्थो वा । ततश्चायमर्थः-महामहिमशालित्वेन प्रसिद्भणववेदप्रधान ब्रह्मविष्णुरुदासीन्द्रादीनां मध्ये किं निरतिशयवृहदिति प्रश्रे, प्रणवादिव्यावृििहं व्यावर्तकलक्षणोक्यैव सिध्यति, न ततः प्राक् प्रक्षसमये । ततश्च 'जिज्ञास्यम् इत्यस्योक्तरीत्या संगतिसूचकत्वमेव । न तु प्रधानादिव्यावर्तकत्वमिति । यदेव निरतिशयवृहदुक्तं तदेव जिज्ञास्यमिति । नन्वेतद्ग्रन्थपर्यालोचनायाम्, “यतो वा इमानि ! इति वाक्ये “ तद्विजिज्ञासस्व ” इति जिज्ञास्यत्वं विधीयत इति प्रतीयते । तदनुसाराच “अधीहि भगवः' इति प्रोऽपि किं जिज्ञास्यमिति जिज्ञास्यविषयक