पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ श्रीरङ्गरामानुजमुनिविरचिता दायिनो वान्यपदार्थतयेति । विशिष्टसमुदायान्तर्गतत्वाकारेणेति ! अयं भावः –मवर्थ बहुव्रीहेरनुशिष्टत्वात् 'वासस्विनमान्य ’ इत्यादौ वासःसंयोगस्यैव मत्वर्थतया प्रतीतेः, तस्य च वासं विना अनथनासंभवात् वासोविशिष्टस्यैवानयनम् । तदेव 'शुक्रवाससमानय ' इति तद्गुणसंज्ञिानबहुव्रीहौ वासःसंयोगस्यैव मत्वर्थानु शिष्टबहुव्रीह्यर्थतया प्रतीतेः अन्रेण वसन्तस्यानथनासंभवात् तद्वत एवानयनम् । 'गोमन्तमनय' इत्यत्रब * चित्रगुमान्य' इत्यत्रापि स्वामित्वस्यैव बहुव्रीह्यर्थतया यतीतेस्तस्य चानयनेऽपि चित्रगीनां स्वामित्वलक्षणसंबन्धानपायान्न गवामानयनम् | तद्रदिहप्यन्यपदार्थे जन्मथिलियारञ्धसमुदाये जन्मन आद्यावश्वत्वेनानुप्रविष्टत्वात् अवयवावयभावस्य च मत्वर्थविहितबहुत्रीह्यर्थत्वाट्वयबेन विनान्यबिनोऽभावाज्जन्म नोऽप हूणे सिद्धमित्यर्थः ! कृत्स्रस्य भुवनस्यैककार्याविशेषेणेति । कृत्स्रस्य कावर्गस्यैककार्यक्दनायासेन एकेन कर्ता संकल्पमात्रेण निर्मितत्वज्ञापनार्थमि प्रसिद्धवनिर्देशरूपतयति । ननु ग्रहाधिकरणे एकवचनार्थस्याविवक्षाङ्गो कारेऽपिं प्रातिपदिकार्थतयों कथं तस्याविवक्षाऽङ्गीकर्तु शाक्य इति चेत् – न । यथा

  • यस्योभयं हविरमिच्छिंति ? इत्यत्र प्रातिपदिकार्थेऽपि हविर्विशेषणीभूतोभयत्वे न

श्रुतेर्विवक्षा, एवं “भूतानि ? इत्यनेनैवद्देिश्यस्य लब्धत्वात् “इमानि ! इति शब्दार्थे न विवक्षाऽङ्गीकर्तु दायेति हि तस्यभिप्रायः । न तु “ इमानि ?' इत्यस्यैव पदस्योद्देश्यसमर्पकत्वमप्यङ्गीकृत्य विशेषणांशे न तात्पर्यमित्युच्यते । नन्वेवं सतिं प्रसिद्धन्निर्देशरूपतयानुवादरूपम् ? इति व्यर्थम् ; इदंशव्दार्थे उद्देश्यविशेषणे तात्पर्याभावादित्येव सुवचमिति चेत् । मैवम्-इदंशाब्दस्यार्थभूते उद्देश्यविशेषणे वाक्यस्य तात्पर्याभावेनेत्यन्वयः । अचिन्त्यरचनत्वादेः संनिहितवाचीशब्दार्थत्वीप . पादकः * अनुवादरूपस्य ” इत्यन्तो ग्रन्थ इति द्रष्टव्यम् । नन्वेवं “ भूतानि ? इत्यत्र घहुवचनमप्यविवक्षितं स्यात् । अन्ततो गत्वा यच्छब्दार्थतया अनुवाद्यस्य ब्रह्मणो विशेषणभूत भूतकारणत्वमप्यविवक्षितं स्याष्ट्र ! तथा “सर्वाणेि हवा इमानि भूतानि ? इत्यादौ सर्वत्वमप्यविवक्षितं स्थादिति कोऽयमाक्षेप इति चेत् – न । न्यायसाम्यादापात आक्षेपस्य तत्परिहारस्य च दर्शने 'दोषाभावात् । ग्रहबहुत्वस्य विरुद्धं क्षेकत्वमिति । तत्र द्युत्पत्तिवाक्ये प्रहाणां दशत्वसंख्या अवगतैवेति