पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ! जन्मान्यधिकरणम्) ३८३ क्रियन्तो ग्रहाः संमाष्टव्यः' इत्याक्राङ्काया अभावादनाकङ्कितः संख्या अविवक्षिनां । अत एव “ चमसाध्वन् वृणीते " इत्यत्र चमसाध्वणामुपादकवाक्यान्नराभावे नोत्पत्तिवाक्यावगतसंख्यान्तरसंबन्धाभावेन संख्याकाङ्कायाः सत्वात् “ चमसाध्वन् !! इति बहुत्वस्य विवक्षाङ्गीकृत । तथा “मैलावरुणः प्रेष्यति चान्वाह च' इत्यत्र व्यस्तयोः प्रैषानुवचनोज्ञितकर्तृकत्वेन समस्तोरेव प्रैषानुवचनयोः कस्रकाङ्क सत्त्वात् प्रैषानुवचनरूपोद्देश्यगतं चशब्दावगतं साहित्यं विवक्षितम् । ततश्च सहितयोरेव प्रैवानुवचनयोत्रावरुणकर्तृत्वविधिरिति पूर्वतन्त्रे स्थितत्वात् । इह तु ब्रह्मण इतरव्यावृत्तमहामहिमप्रदर्शनार्थतया “इमानि !) इत्यस्थापेक्षितत्वादिति भावः । तत्र तत्राङ्गीकृतेति । “ यस्योभावनी अनुगतानभिनिम्रीचेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्धिति । इत्यत्राग्निद्वयोत्पादनसमर्थविधेयाधानान्वयानुपपत्या वाक्यस्या युक्तार्थत्वलक्षणानर्थक्यप्रसङ्गेनान्युभयत्वस्य विवक्षा ! तथा “युवं हि स्थः स्वःपती इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात्' इत्यादैौ िद्वत्वादिविवक्षा; तामङ्गीकृत्य कुलयिादि पूत्कर्षाभ्युपगमादिति भाव । किमयं तसेिलत्ययः “तसेश्च' इति विहितस्तसेि स्थानिकः, उत “पञ्चम्यास्तसिल्' इति विहितो वेति विकल्प्याधं दूषयति तसिप्रत्ययस्येति । द्वितीयं दृश्यति –एवं तसिलोऽपीति । धर्मिस्वरूपस्य कल्याणतामाहेति । ज्ञानत्वादेः कल्याणत्वे कथिते धर्मिणोऽपि कल्याणत्वं कथितं भवतीत्यभिप्रायः । आदिशब्देन सत्यत्वमानन्त्यं च विवक्षितमिति । इदमुप लक्षणं सार्वश्यादीनाम् । तेषामपि कल्याणत्वस्यावश्यबोध्यत्वादिति द्रष्टव्यम् । हेयप्रत्यनीकत्वं पूर्वमुक्तमिति । अतो न तत् आदिपदग्राह्यमेिति भावः । वस्तुतस्तूक्तस्याप्यनन्तत्वकल्याणत्वबोधनार्थ तस्याप्यादिपदेन ग्रहणे न दोष इत्यपि द्रष्टव्यम् । नन्वादिशब्देनानन्त्यस्यापि ग्रहणे 'अन्नकल्याणगु[णग]णात्' इति निर्दिष्टमानन्त्यं कथमन्वेलु, आनन्त्ये आनन्त्याभावादित्याशङ्कयाह--आदिशब्देना नन्त्यस्य गृहीतत्वेऽपीति । अन्येषामनुभवितृणामपीति । स्वानुकूलत्व मानन्दत्वम् , अन्येषामप्यनुकूलत्वं कल्याणमिति तयोर्भेदः । सौलभ्यनुक्तौ हेतुमाह-संश्रितौलभ्यं चेति । ततश्च कारुणिकत्वेनैव सिद्धमित्याशयः । ऋ* दयायाः कारणत्वोपयोगित्वमुक्त्वा जिज्ञास्यत्वोपयोगमाह – संश्रितेति ।