पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ श्रीरङ्गरामानुजमुनेिविरचिता व्याहृतविशेषणान्तरव्यबच्छेदः:वस्य ग्वाडो मुण्डः ? इत्यादौ दर्शनत्त्रि तात्पर्यात् । नन्वीदृशं भेदकत्वमुपलक्षणक्षेऽपि संभवत्येव, तस्यापि व्यावर्तकत्वादिति चेत् – भवत्विदं दूषणमुपलक्षणपक्षेऽपि समानम् । का न ; झलिः ? चितु जन्मदिविशिष्टस्य ब्रह्मत्वं वा ? उत तदुपलक्षितस्य ? विशेषणत्वे जन्भविशिष्ट्रस्य स्थितिविशिष्टस्य लयविशिष्टस्य चैक्यासंभवात् विशिष्टानामध्यैक्ये विशेषणानामप्यैक्य प्रसङ्गदित्यादिः सत्यादिवावये मृषादिभिरुक्तो दोषः पूर्वपक्षेऽप्यनुसन्धेयः । उपलक्षण पक्षेऽस्य दोषस्यासंभबादाकारान्तरातिपतिर्दोघ इतेि पूर्वपक्षिणो भावः । सिद्धा:ते तु सत्यादिवाक्ये सिद्धान्त्युक्तरीत्यैकस्य विशेष्यस्यानेकविशिष्टन्वसंभवात् न ब्रह्म व्यक्तिबाहुल्यप्रसङ्ग । जन्मरुपविशेषणान्वितया ज्ञातस्य स्थितिरूपविशेषणावित तया ज्ञातस्यापि ब्रह्मण ऐक्यसंभवेन विशिष्(शेष्यै) यस्यापि संभवान् जन्मदि विशेषणान्विते ब्रह्मत्वस्य सत्वेन विशिष्ट ब्रयुक्तौ दोषाभावान् | यदि च विशिष्टा न्वयिनो विशेषणावयित्वनियमात् जन्मदिविशिष्ट ब्रह्मत्वान्वये जन्मादावपि ब्रह्मत्वा न्वयप्रसङ्गान्नायं विशेषणमक्षेो युक्त इत्याप्रह , पलक्षणत्वपक्षेो भविष्यति आकारान्तरप्रतिपत्तेः स्थितत्वादिति सिद्धान्त्यभिप्राय । ततश्च परस्परविरुद्धयोविंशेष णत्वोपलक्षणत्वपक्षयोः कथं भाष्येऽभ्युपगम इति चोद्यस्य नावकाश इति वदन्ति । केचित्–“विजिज्ञासस्व' इत्यत्रोपासनस्य विधान्नाज्जगत्कारणत्वस्योपासनेऽन्वया नन्वयोः सत्त्वात् भाष्ये विशेषणत्वोपलक्षणत्वाभ्युपगमो न विरुद्धः । श्रुतप्रका शिकाचार्येरपि * इतने धर्थसामान्यात् ? इत्यत्र भाष्याभिप्रायस्याचिकृतत्वाच्च तथैवा विरोधो नेय इति वदन्ति । अन्ये तु – विशिष्टनिष्ठं जगत्कारणत्वं, विशेष्यनिठं तु सत्यत्व दिक्रमिति बहुशो ग्रन्थकृष्यबहारदर्शनात् भाष्ये च , “जगत्कारणत्वोपलक्षित स्वरुपस्ये । ति बहुशो व्यवहारदर्शनाच जगत्कारणत्वं चिदचिद्विशिष्टस्य ब्रह्मणो विशेषणभूतं लक्षणम् ; शुद्धस्वरूपस्येोपलक्षणम् । जगत्कारणत्वस्थ शुद्धस्वरूप निgत्वाभावात् । तदभिप्रायेणैव विशेषणोश्लक्षणाभ्युपगम । न च. शुद्धस्वरूप निष्टस्य विशिष्टनिष्ठस्य जगत्कारणत्वस्य कर्घ शुद्धस्वरूपोपलक्षणत्वमिति । वाच्यम् तटस्थस्या िशाखाग्रस्य चन्द्रोपलक्षणत्वदर्शनादिति वदन्ति । पाराशर्यविजये सु - विशेष्यनिष्ठत्वानिष्ठत्वाभ्यां विशेषणोपलक्षणभेदमश्रित्य जगत्कारणत्वस्य ब्रह्मनिष्ठतया