पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (जन्माद्यधिकरणम् १-१-२) ३०९ विशेपण:वम्, प्रपञ्चगतजन्मादेस्तु ब्रह्मस्वरूपनिष्ठतयेोपलक्षणत्वमिति प्रकारे न्तरेणैवेति नियनो नाति ; शाव्दी च विद्यते = शब्दादपि संभवतीत्यर्थः । सर्वात्मना अज्ञातगोव्यक्तिवे * को गैः । ति जिज्ञासाया एवानृदय इत्याशङ्कयाह प्रत्यक्षेणादृश्यभानगोव्थतेरिति । वाक्यप्रयोगासंभवध्युदासावेति । अजि ज्ञ पुं प्रति वाक्यमथोगासंभवादिति भावः । 'शाखाग्रभुपलक्षणम् ? इत्यस्यानन्तरं * कलविशेषे देशविशेषसंवन्ध उपलक्ष्याकारः । शास्वाग्रचन्द्रथेश्च ऋजुप्रदेश स्विं संबन्धः ' इति पाठश्रेत् युश्लिष्टः । स च संबन्धो वाक्यावगत इति । वाक्योध्य इत्यर्थ । * छ चन्द्रः' इति बुभुत्सुं प्रति संबन्धस्यैव ज्ञाप्यत्वात् । चन्द्रशब्दबोध्यम् । चन्द्रशब्दवाच्यमित्यर्थः । अनयोरेतान् विशेष इत्याह-क्रेदारन्धाद्याकार इत्या दिना । केदारान् साक्षात्कुर्वन्नेत्र पृच्छति * को देवदतकेदारः । इति । चन्द्रम पश्यंस्तं मृग्यमण एव पृच्छ,ि 'ब चन्द्रः ! इति । अतो वैशिष्टयमिति भावः । शब्दोत्थापितेति । 'चन्द्रो दृष्टो छ : इत्य दिशब्दोत्थापितेत्यर्थः । ज्ञाप्यबहिर्भूतो ज्ञाप्यप्रतीत्युपाय इति । शाखास्य चन्द्रप्रतीतिदशायाम् प्रतीतेरुपलक्षणत्वम् । प्रकृष्टप्रकाशत्वस्य चन्द्रप्रतीतिदशायामपि विषयत्वमस्ति; प्रकृष्ट प्रकाशविनिर्मुक्तस्य चन्द्रस्थतीतेरिति भाव । शब्दतो धीस्थतयेति । यत्। पदजन्यपदार्थोपस्थितौ विषयभूतं सत् वान्यार्थप्रतीतिदशायां स्वविशिष्टप्रतीतिमादधाति, दुपलक्षणमिति भावः । स्थूलभूक्ष्मात्मने नम इतिवदिति । इदं पुराणप्रक्रियायां स्पष्टम् । व्यतिरिक्त-अन्तरशब्दयोः पौनरुक्तधमाशङ्कयाह-- आकारान्तरभाकारविशेष इति। वृहत् वृषं च, उपलक्षणभृताश्वत्यादिचशब्दा नामर्थमाह--आकारत्रयपृथक्त्वेति । तदितरकारद्धयसमुचयार्थइयर्थः । यद्वा त्रह्मशब्देनेति । बृहत्त्वस्य धात्वर्थलेऽपि वृंहणत्वस्य कथं धात्वर्थत्वमिति भाव । अस्मिन् क्षे निरतिशयपरित्यागो भेदक अनवधिकातिशयशब्दे तात्पर्यमिति पूर्वपक्षे अनवधिकातिश,विशिष्टबृहत्त्वमुपलक्ष्यम् । अस्मिस्तु पक्षे वृद्दत्वं नोप