पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० लक्ष्यम् । अपितु दूतोऽतिशय इत्यर्थः । इदानां ब्रद्धेति चेत्यत्र चशब्द इत्यर्थः । वशब्द इति । प्रतिपन्नं भाप्ये * लक्षणभूताःयपि विशेषणानि ?' इत्यत्रामाधारणधर्मत्पन्त विवक्षायाः प्रकृते प्रयोजनाभावानाह--व्यावर्तकभृतानीत्यर्थ इति । लक्षणत्व यद्वा लक्षणभूतानामिति ! उत्तरमन्थेन पौनरुक्त्यमाशङ्कयाह--अयं ग्रन्थः पक्षविषय इति । भिन्नविपयत्वमेव भेदः कत्वमिति । भेदकत्वप्रयोजकमित्यर्थः । जीघञ्जातीयत्वशङ्काऽ.ष्ठित इति ! ननु – जीवासंभातिजगत्कारणत् श्रवणेऽपि जीवजातीयत्वशङ्का भवति चेत्, सत्यवादिश्रवणेऽपि जीवजातीयत्वशङ्क तदवस्थैव । जीवत्वव्यापासत्यत्वादिव्यावृन्या जीवत्वाभावसांश्चन् जीवत्वाभाव व्याप्तजगत्कारणत्वेन जीवत्वाभावानुमानसंभवादिति चेत् – न । कारणत्वशक्ति दोषन्यवच्छेदकतया सत्यादिलक्षणसार्थक्यमस्तीत्यत्र तात्पर्यात् । स्वरूपनी धर्म तचैकरूपत्वं ज्ञापयतीति । नन्वेवं परमात्मनोऽपि सत्यत्वं न स्यात्, धर्मभूनचिद चितोर्विकारसत्त्वदिति चेत् – न । स्वरुपे वा धर्मभूनाने वा बिकारशून्यत्यस्य तदर्थत्वाम् । नन्वेवमपि परमात्मधर्मभूतज्ञानस्यापि सिसृक्षादिरूपपरिणामत्वात् परमात्मनोऽपि सत्यत्वं न स्यादिति चेत् – न । कर्मकृतविक राभावस्यैव तदर्थत्वात् । ज्ञानत्वगुणे समवैतीति । ननु -ज्ञानात्यस्य द्रव्यस्य ज्ञानवगुणसमवेतत्वा संगच्छत इति चेत् -न । तथा सति आत्मन्यद्वारकज्ञानत्वप्रतिपतिर्न स्यादिति भावः। ननु ब्रह्माशब्दोपस्थापितत्वेन धर्मस्यापि ज्ञानत्वबोधनेऽतिप्रसङ्गः , ब्रह्मत्वस्यापि ज्ञान रूपत्वप्रसङ्गात् । किंच] ब्रह्मत्वस्यैव विधेमत्वेन ब्रह्मानुवादेन ज्ञानत्वस्य ि विधेयत्वा संभवाञ्छ । संकल्पादिषु ज्ञानरूपतया प्रतिपन्नेषु ज्ञानोधनस्य व्यर्थत्वाचेत्याशङ्का मुपसंहारयाजेन निरस्यति – अतो यथोक्त एवार्थ इति । अयं भावः –“सत्यं ज्ञानम्' इत्यत्रान्तोदाततया अर्शआचजन्त्वेन ज्ञागुिणवत्वमतीते ज्योतिः सम्राट् ? इत्यत्रापि स्वरूपस्य प्रकाशत्वप्रसिद्धेश्चाविरोधादिति भावः । वस्त्वन्तराभावो वस्वरिच्छेद इति मृषावादिमतं दृषयति-इहेदम् नान्यत्रेत्यादिना। |६म