पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता बाध्यमिति परिग्रहे ज्ञातव्यमित्यर्थः । सध्याविशिष्टत्वं स्यादिति । शामवेद त्वात् शाखवेद्यमित्युते साऽयाविशिष्टता स्यादित्यर्थः । तुशब्दस्याप्राप्त इत्यनेनान्वयमभिप्रेत्यावधारणपरतया व्यास्याय शम्भ्रमित्य नेनान्घयमभिप्रेत्य व्याचष्ट-चैपम्ये बेति । शास्त्रस्य तु बुभुत्सितग्राहेित्वे नेति । यद्यपि शब्दोऽबुभुत्सिमपि प्रतेिषादयति, तथापि शब्दस्य तादृशविषये प्रयोजनपर्यवसायित्वं न स्यात् । तच न युक्तम्, स्वाध्यायविध्यध्यापितवेदभागस्य वश्यं प्रयोजनपर्यवसायित्वस्य वक्तव्यत्वादिति भावः । ईश्वरमात्रानभ्युपगमेनैक देशित्वमिति । इदं च किं तर्हि प्रमाणमिति प्रमाणसामन्थक्षेप इयभिप्रायेणोक्तम् ।

  • अत अगमादृते कथमीश्वरः सिध्यति : इत्युपसंहारपर्यालोचनायां तु सिद्धान्ति

चोद्यत्वमप्युपपद्यत इति द्रष्टव्यम् । देशसंनिकर्ष ििशंपतेति । विद्यमानः संनिकर्षे यस्य स विद्यमानसंनिकर्ष इत्येवं संनिकर्षस्य विद्यमानत्वेन विशेषणे अविशेषत् द्वयोरपि ग्रहणमित्यर्थः । अत्र संनिकर्षशब्देन संयोगादिषड़िधसंनिकर्षग्रहणे ननुपपतिगन्ध इत्यपि द्रष्टव्यम् । न च संनिकर्षत्वाविशेषात् स्वभावसंनिकर्षस्यापि ग्रहणं िकं न स्यादिति वाच्यम्, योग्यशब्देन पृथङ् निर्देशात् गोबलीवर्दनयेन तद्या तिरिक्तसंनिकर्षग्रहणमिति भावः(वत्?) । अनुद्भवादिवशादयो यस्थ व्यवच्छेद इनि । न च तस्याप्यतीन्द्रियतया स्वविषयशब्देनैव व्यवच्छेद्यत्वमस्त्विति वाच्यम्, स्वविषयसजातीयतया विषयत्वमस्तीति तात्पर्यात् । यद्वा योग्यशब्देन पित्तगतपीति माभिभूताङ्गश्चैत्यादिव्यावृत्ति: । बहिष्टमेधेोपपादितमिति । ततश्च सुखदु ख व्यतिरिक्तत्यस्य न वैथश्रमिति भावः । प्रमितिकारणाभावादिति । अतिरिक्त विषा प्रतिस्वयोजकाभावादित्यर्थः । अधिकविषयत्वे दृषणमाहेति । दूषणान्तरमप्याहेत्यर्थः । इन्द्रियसंबन्धाभवान् अमा च न भवेत्; दोषजन्यत्वावश्यं भावात् भ्रमश्च भवेदित्यर्थः । केचितु-प्रमितिकारणाभावान्न आमाण्यमित्यर्थ इति । प्रमितिशब्दः प्रत्यक्षपरः । प्रत्यक्षत्वमयोजकाभावान्न प्रत्यक्षत्वमित्यर्थः । तदूिषयप्रत्यक्षे तदिन्द्रियसंनिकर्षस्य कारणत्वादिति भावः । ननु प्रत्यक्षप्रमाया मेवेन्द्रिथसंनिकर्षः कारणम्, न प्रत्यक्षत्वावच्छिन्न इत्याशङ्कय दूषणमाहेत्याह अधिकविषयत्वे दृषणमाहेति इति व्याकुर्वन्ति ।