पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( केचित्-कायेत्वस्यैकत्वं साम्ठक्यत् । तस्याश्चक्रत्वं का क्यादियुपपादनात् एकं कार्यत्वमेक्रत्वसमानाधिकरणे क्रायेत्बम् एककार्यत्वमित्यर्थ । न तु कार्यत्व ऐक्थम्। अत एव * पृथग्भूतेषु कार्येषु ' इति भाष्यमपि स्वरसम् । ततश्च कार्यस्यैकत्वे हेककालकर्तृकत्वसंभावनापि । न च तदस्तीति भाव इत्याहुः ! कर्तृकालैक्य नियमाभावादितेि पञ्चम्याः, * निर्मिता इत्यत्र प्रमाणाभावात् ' इति पञ्चम्चान्वयो न संभवतीत्यभिप्रेत्य, 'प्रमाणाभाव इति प्रथमान्तपदमध्याहृत्य व्याचष्ट - बहुपु चेत्यादिना । इतरासंभावितेति । असंभावितजीवकर्तृताकं पक्षाधारणकार्यव मित्यर्थः । अन्वयव्यनिरेकसिद्धान् धर्मानिति । जीवत्वधर्माधर्मादीनेित्यर्थः । न्वीश्वरज्ञानप्रयलयोः कथं व्यभिचारपादनम्, स्वेन तदभ्युपगमादित्याशङ्कयाह अन्यनरानैकान्त्यादिति । सर्वसंहारदशायामिति । सर्वसंदरदशायां स्वशरीर स्यापि संहृततया सर्गाद्यसमये संहृतत्वदित्यर्थः । इदानीं क्रमेणेोत्पत्तिविनाशा विति । यदा क्रमो दृश्यते, न तदा इष्टविरुद्धं यौगपद्ये कल्प्यते; अपितु सर्गाद्य समये इति भाव । कार्यत्वस्योत्पतिभत्वरूपस्योत्पत्तिविनाशकरूपकत्वासंभवमभिः प्रयन्नाह-कार्यत्वं कृतिसाध्यत्वमिति । कार्यत्वेनेति तृतीयायः क्रियानुपादानेन कारकतृतीयत्वासंभवमध्याहारे तस्यैव दोषत्वं चाभिप्रेत्याह-तृतीया चेत्थंभाव इति । केचित्तु-कार्यत्वेनोत्पतिविनाशयोः कल्पनेऽपीति बा कल्प्यमानयोरिति वाऽध्याहृत्य व्याचक्षते ! च्यवृत्त्यर्थो बुद्धिमच्छब्द इति । कार्थानुकूलज्ञानादि मत्वलक्षणं कर्तृत्वमिह विवक्षितम् । न तु तदनुकूलव्यापारवत्वमात्रमिति भावः । भाष्ये 'साध्यविकला च दृष्टान्तस्य ) इत्यत्राप्रसिद्धविशेषणत्वेनैव दृष्टान्ते साध्य वैकल्यसिद्धिमपि मन्यमानाः केचित्-* नो ह्यर्थः, ततश्च दृष्टान्तस्य साध्यविकलत्वात् पक्षस्य साध्यवत्वे साध्येऽप्रसिद्धविशेषणत्वमिति हेतुहेतुमद्भावेन योज्यम् इतिं व्याचक्षते । युगपदुत्पत्त्या वेति। महीमहीधरादिकमेककर्तृकं युगपदुत्पद्यमान कार्यत्वादिति वा, त्रैकाल्यवसिमतकार्यत्वादिति वा हेतुशरीरमिति भावः । विरुद्धत्वमित्यर्थ इति । इदमुपलक्षणम्; सर्वकार्थत्वस्य पक्षीकृमहीमहीघरादौ वा सपक्षे घटादौ वा अभावेन स्वरूपसिद्धिदृष्टान्तासिद्धिश्चेति द्रष्टव्यम् । भिन्न कर्तृकत्वस्य प्रतिक्षेप इत्यर्थ इति । यद्यपि यथाश्रुते नानुपपत्तिः, तथापि