पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (समन्वय १-१-४) ३२१ प्रतौ अपूर्वसाधककृतविषयत्वेन यागस्य भानात् अपूर्वं प्रति यागस्य वेिपयत्वम्, तत्र च फलं प्रत्यकरणस्य तत्कामकृतिविषयत्वाभ्भवात् यागम्यपूर्वफले प्रति करणत्यमपि अभिधानपर्यवसानलक्षणोपादानप्रमाणतोऽयगम्यते । न च.ग्नेयादियागस्य कथं फलापूर्वे प्रति करणत्वम्, फलापूर्वयोर क्रयारूपत्वदिति शङ्कयम्-तयोरक्रिया एत्वेऽपि तदुद्देशप्रवृतकृतेः िक्रयारूपवेन तत्र करणत्वोपपते ! यदेव फलापूर्वे भावनयोः करणत्वम्, तदेव फलापूर्वकरणत्वमिति व्यपदिश्यते । न च प्रयलरूप भावननिष्पाद्यस्थ यागस्य कथं निष्पादिकायां भावन्तयां करणत्वमिति वाच्यम् भावनायाः फलशिरःकत्वस्य यागधीनत्वात् तथा त्यवहारत् । न हेि तस्या भावनायां यागविषयत्वाभावे फलशिरस्कत्वसिद्धिः । अतस्तट्रपेण करणत्वात् फल भावनाकरणत्वमिति व्यवहारः । न च फलभावनाकरणस्य कश्रमपूर्वभावनाकरणत्वमिति वाच्यम् – तयोरेकलेोलीभावेनपूर्वभावनाया एव फलभावनात्वोपपतेरिति द्रष्टव्यम् । पुत्रजन्मादिवद्यदा सिध्येदिति । अत्र केचित् याथात्स्यानुभवस्य स्वरूपा भिन्नत्वा निमित्तत्वमस्त्वित्याशङ्कयाह -निमित्तत्वे चेत्यप्यवतरिकामाहुः । भावार्थाः कशब्दा इति । कर्मतशब्दो वाचकेो येषां ते तथोक्ता । कर्मशब्दवाच्या इत्यर्थः । केचित्तु-अभावार्थत्वाच-क्रियारूपत्वाभावादित्यर्थः । भावार्थाः कर्मशब्दा इति पाठ । 'भावार्थाः कर्मशब्दा ? इत्येतत् ' गावार्थाः कर्मशब्दा स्तेभ्यः क्रिय प्रतीयेत : (२-१-१.) इति जैमिनिसूत्रोपादानम् । तस्य चायमर्थ:-भाो भावना । सोऽर्थो येषां ते तथोक्ताः । क्रियावाचिन इत्यर्थः । कर्मशब्दः= कर्म कृतिसाध्यम्; यागः । तद्वाचिन इत्यर्थः । ततश्च ये भावनावचनास्सन्तः कर्मवचना यजेतेत्यादयः तेभ्य एव क्रिया प्रतीयेत, अपूर्वं प्रतीयेतेत्यर्थः । ततश्च भावः भावना इत्यादिशब्दानां भावनावचनत्वमात्रमस्ति । न च ते अपूर्वप्रत्यायकाः । कर्भवचनत्वमात्रं च याग इत्यादिशब्दानामप्यस्ति । न च ते अपूर्ववचनः । अतो द्वयमपि प्रयोजकम् । ततश्च ब्रह्मशब्दस्यक्रियावाचिनोऽपूर्ववचित्वाभावत् न ब्रह्मणो नियोगविषयत्वमिति जैमिनिसूत्रसंमति प्रदश्यैः इत्याहुः । साध्यत्वं फलस्याप्यस्ति इति । असाध्यत्वमात्रे. उपन्यस्ते साध्यत्व मात्रमेव विषयत्वप्रयोजकमिति शङ्का स्यात् । न. च तद्युज्यते । स्वर्गादावति 41