पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशेिन्झ (समग्धय १-१-४) देरनुग्रहः करणेोत्पत्त्यनन्तरमाथ्येचेति द्रष्टन्थम् । अभावादेवेत्येवकारेणेति । द्रष्टव्य इति तस्य दर्शनरूपतेति कचित्कोशे पाठी दृश्यते । तल्य न सम्यक्त्वं पश्यामः । न हि ध्यानन्थेिोगवादिना तथाप्यभ्युपगम्यते ! तन्मतमनुवदता वाच स्पतेिनाप्युक्तम्, “तन्न चात्मदर्शनं न विधेयम्, तद्धि दृशेरुपलब्धिवचनत्वत् श्रवणं वा स्यात्, प्रत्यक्षं वा । प्रत्यक्षमपि छैौकिकाहंप्रत्ययः, भावनाकर्षपर्यन्तजं वा । तत्र श्रवण न विधेयम्; स्वाध्यायविधिनैव सिद्धत्वात् कर्मश्रदणवन् । नापि ौकिकं प्रत्यक्षम्; तस्य नैसर्गिकत्धात् । न चैौपनिषदात्मविषये भावनाधेयवैशद्य विधेयम्; तस्योपासनविधानादेव बजिनवदनुनिष्पादितत्वात् । तस्मादौपनिषदात्मो पासना अमृतत्वकामै नियोज्यं प्रति विधीयते ! द्रष्टश्य इत्यादिविभ्रयस्तु विधिसरूपा न विधय इति । तदिदमुक्तं तदुपासनाच शास्रदृष्टो मोक्षः फलं भविष्यतेि ? इति वर्णितम् । तद्विरोधप्रसङ्गात् , “ तद्धाननियोगेन तत्साक्षात्कारफलेने 'त्युत्रभाष्य तव्याख्यानानुगुण्याभावाधार्य ग्रन्थो लेखकस्खलन्कृत इति प्रतिभाति । केचितु एतद्ग्रन्थानुसारात् ध्याननियोगवादिनां तादृशमपि मतमस्तीति वदन्ति । तद्रक्षेति कथं ज्ञायत इति । यद्यपि स आत्मेति कथं ज्ञयत इति वक्तुमुचितम्, भाष्यानु गुणत्, तथापि ब्रह्मासशब्दयोः समानप्रकरणे पाठेन ऐक्ये सिद्धमिति भावः । भाण्ये ध्याननियोगेन तत्साक्षात्कारलेनेति । अत्र चोदयन्ति-“ ध्यान नियोगवादिमते मोक्षस्यैव फलत्वमिति हेि तत्प्रक्रिया; न तु साक्षात्कारः फलमिति । तथा शाङ्करभाष्येऽनुभ्यासात्' इति ! ते अतिवक्तव्याः । ध्याननियोगवादिनां त्रयी गति: ब्रह्मभावः फलम्, अविद्यापनयो वा साक्षात्कारो वेति । आद्यपक्षस्याति दुर्बलतया अयमेव पक्षेो भाष्यकृता उपन्यस्तः । अत एव तन्मतं दूषयता वाचस्पतिना प्युक्तम् 'ब्रह्मभूयस्याविद्यापिधानापनयनमात्रेण सम्भवादछिापनयनस्य च वेदान्तार्थ ज्ञानादेव सिद्धेः, साक्षात्कारकारणमनस्सहकारिसंस्कारजनकपस्योपासनायामन्यत सिद्धेन विधिः' इति । मोक्षस्यारीररूपत्वश्रुत्या चेति । अशरीरवलक्षण मोक्षस्य धर्माधर्मफलभूतप्रियप्रियविरहप्रतिपादकश्रुत्येत्यर्थः । उत्तरग्रन्थानुरोधादिति द्रष्टव्यम्। फलित इत्याह इत्यशरीरत्वरूपेति इति पाठो दृश्यते । तत्रा शरीरस्वरूपेति प्रतीकहणमुचितं न विकिरणयुक्तस्य । इतिकरणस्य तथा च